सामग्री पर जाएँ

यौष्माकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यौष्माकम्, त्रि, (युष्मद् + अण् । “तस्मिन्नणि च युष्माकास्माकौ ।” ४ । ३ । २ । इति प्रकृते- र्युष्मकादेशः ।) युष्मत्सम्बन्धि । युष्माकमिदं इत्यर्थे ष्णप्रत्ययेन निष्पन्नम् । इति मुग्धबोध- व्याकरणम् ॥ (यथा, कथासरित्सागरे । ११२ । २०५ । “इत्याद्यस्मासु जल्पत्सु मिलितेष्वत्र तत्क्षणम् । विद्याधरो धूमशिखो यौष्माकोऽवातरद्दिवः ॥”)

"https://sa.wiktionary.org/w/index.php?title=यौष्माकम्&oldid=160276" इत्यस्माद् प्रतिप्राप्तम्