सामग्री पर जाएँ

यौष्माकीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यौष्माकीनम्, त्रि, (युष्मद् + “युष्मदस्मदोरन्यतरस्यां खञ्च ।” ४ । ३ । १ । इति खञ् । “तस्मिन्नणि चेति ।” ४ । ३ । २ । इति युष्माकादेशः ।) युष्मत्सम्बन्धि । युष्माकमिदं इत्यर्थे णीन् प्रत्ययेन निष्पन्नम् । इति मुग्धबोधव्याकरणम् ॥ युष्मच्छब्दे अलिखित- त्वादवसरसङ्गत्या गौणयुष्मदस्मच्छब्दप्रयोगोऽत्र लिख्यते । युष्मदस्मदोर्मुख्यत्वे गौणत्वे च सिजस् ङेङसां स्वरूपग्रहणात् तेषु परेषु त्वाहयूयवय- तुभ्यमह्यतवममाः स्युरेव । सिजसांदेरन्यत्र युष्म- दस्मदोर्मुख्यत्वे एकवचने परे त्वन्मदौ द्बिवचने परे युवावौ बहुवचने परे स्वरूपेणावस्थानम् । गौणत्वे तु परविभक्तिमनादृत्य युष्मदस्मदोरेकत्वे त्वन्मदौ द्वित्वे युवावौ बहुत्वे स्वरूपेणावस्थान- मिति ॥ * ॥ यथा त्वामतिक्रान्तः अतित्वं अतित्वां अतियूयम् । अतित्वां अतित्वां अतित्वान् । अतित्वया अतित्वाभ्यां अतित्वाभिः । अति- तुभ्यं अतित्वाभ्यां अतित्वभ्यम् । अतित्वत् अति त्वाभ्यां अतित्वत् । अतितव अतित्वयोः अति- त्वयाम् । अतित्वयि अतित्वयोः अतित्वासु ॥ * ॥ युवामतिक्रान्तः अतित्वं अतियुवां अतियूयम् । अतियुवां अतियुवां अतियुवान् । अतियुवया अतियुवाभ्यां अतियुवाभिः । अतितुभ्यं अति- युवाभ्यां अतियुवभ्यम् । अतियुवत् अतियुवाभ्यां अतियुवत् । अतितव अतियुवयोः अतियुवयाम् । अतियुवयि अतियुवयोः अतियुवासु ॥ * ॥ युष्मानतिक्रान्तः अतित्वं अतियुष्मां अतियूयम् । अतियुष्मां अतियुष्मां अतियुष्मान् । अतियुष्मया अतियुष्माभ्यां अतियुष्माभिः । अतितुभ्यं अति- युष्माभ्यां अतियुष्मभ्यम् । अतियुष्मत् अति- युष्माभ्यां अतियुष्मत् । अतितव अतियुष्मयोः अतियुष्मयाम् । अतियुष्मयि अतियुष्मयोः अति- युष्मासु ॥ * ॥ मामतिक्रान्तः अत्यहं अतिमां अतिवयम् । अतिमां अतिमां अतिमान् । अतिमया अतिमाभ्यां अतिमाभिः । अतिमह्यं अतिमाभ्यां अतिमभ्यम् । अतिमत् अति- माभ्यां अतिमत् । अतिमम अतिमयोः अतिमयाम् । अतिमयि अतिमयोः अति- मासु ॥ * ॥ आवामतिक्रान्तः अत्यहं अत्यावां अतिवयम् । अत्यावां अत्यावां अत्यावान् । अत्यावया अत्यावाभ्यां अत्यावाभिः । अति- मह्यं अत्यावाभ्यां अत्यावभ्यम् । अत्यावत् अत्यावाभ्यां अत्यावत् । अतिमम अत्यावयोः अत्यावयाम् । अत्यावयि अत्यावयोः अत्या- वासु ॥ * ॥ अस्मानतिक्रान्तः अत्यहं अत्यस्मां अतिवयम् । अत्यस्मां अत्यस्मां अत्यस्मान् । अत्यस्मया अत्यस्माभ्यां अत्यस्माभिः । अतिमह्यं अत्यस्माभ्यां अत्यस्मत् । अत्यस्मत् अत्यस्माभ्यां अत्यस्मत् । अतिमम अत्यस्मयोः अत्यस्मयाम् । अत्यस्मयि अत्यस्मयोः अत्यस्मासु । इति दुर्गादासः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यौष्माकीन¦ mfn. (-नः-ना-नं) Yours, thine. E. युष्माक for युष्मद् thou, स्वञ् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

यौष्माकीन mf( आ)n. id. HParis3. ( Pa1n2. ib. )

"https://sa.wiktionary.org/w/index.php?title=यौष्माकीन&oldid=387337" इत्यस्माद् प्रतिप्राप्तम्