रक्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तः, पुं, लोहितवर्णः । इत्यमरः । १ । ५ । १५ ॥ कुसुम्भः । हिज्जलः । इति राजनिर्घण्टः ॥ (बन्धूकः ॥ तत्पर्य्यायो यथा, -- “बन्धूको बन्धुजीवश्च रक्तो माध्याह्निकोऽपि च ॥” इति भावप्रकाशष्य पूर्ब्बखण्डे प्रथभे भागे ॥)

रक्तः, त्रि, अनुरक्तः । नील्यादिरञ्जितः । लोहितः । इति मेदिनी । ते, ४८ ॥ क्रीडारतः । इति धरणिः ॥ * ॥ रक्तवर्णवस्तुनि यथा, -- “शोणानि भौमतीक्ष्णांशुताम्रकुङ्कुमतक्षकाः । गुञ्जेन्द्रगोपखद्योतविद्युत्कुञ्जरबिन्दवः ॥ दृगन्ताधरजिह्वासृङ्मांससिन्दूरधातवः । हिङ्गुलं कुक्कुटशिखा तेजः सारसमस्तकम् ॥ माणिक्यं हंसचञ्च्वङ्घ्री शुकमर्कटयोर्मुखम् । चकोरकोकिलपारावतनेत्रनखाग्नयः ॥ कुसुम्भकिंशुकाशोकजवाबन्धूकपाटलाः । कमलं दाडिमीपुष्पं विम्बकिम्पाकपल्लवौ ॥ ताम्बूलरागो मञ्जिष्ठालक्तकं रक्तचन्दनम् । त्रेता नखक्षतक्षेत्रधर्म्मरौद्ररसादयः ॥” * ॥ रक्तनीलवाचकानि यथा, -- “लोहितनीलौ पुष्करहरिविद्रुमकमलकृष्ण- रत्नानि । सिन्दूरभूषणोत्पलधनञ्जयाम्भोजिनीदलानि ॥” यथा । पुष्करं पद्माकाशयोः । हरिः सूर्य्य- कृष्णयोः । विद्रुमः प्रवालविशिष्टवृक्षयोः । कमलं पद्मपाणीयामलयोः कृष्णरत्नं कौस्तु- भेन्द्रनीलयोः । सिन्दूरभूषणं सिन्दूरालङ्कार- गजयोः । उत्पलमुत्कृष्टमांसेन्दीवरयोः । धन- ञ्जयोऽग्निपार्थयोः । अम्भोजिनीदलं पद्मपत्रपु- टकिन्योः । “कमलाधिपपद्मेशौ नागजित्कान्तसूर्य्यभूः । रत्नाकरवरश्रीकः सदाधिकमलद्युतिः ॥” कमलाधिपपद्मेशौ सूर्य्यकृष्णौ । नागजित् गरुडो नागस्पर्द्धी च । कान्तः कमनीयः कं जलं तस्यान्तश्च । सूर्य्यभूः सूर्य्योद्भवो यमश्च । “सदा सिन्दूरमुज्जेता कलयन् कमलश्रियम् । स्फुटशोभनताम्रश्रीर्व्वराहस्वामिदीधितिः ॥ एवं सुसम्पन्नखप्रभः विदूरमणिदीधितिः । प्रबालप्रबलच्छायः कलभानुमितच्छविः ॥” * ॥ रक्तश्वेतवाचकानि यथा, -- “रक्तश्वेतौ हरिशुचिपुष्करशतपत्रसूर्य्यका- न्ताब्जः । नवहंसमहापद्मार्कसोदराः कमलकीलाले ॥” हरिञ्चन्द्रसूर्य्ययोः । शुचिः श्वेतवैश्वानरयोः । पुष्करं जलपद्मयोः । शतपत्रं हंसपद्मयोः । सूर्य्य- कान्तः स्फटिके सूर्य्यवत्कान्ते च । अब्जः शङ्खाम्बु- जयोः । नवहंसः नवहंसे प्रत्यग्रसूर्य्ये च । महा- पद्मः श्वेतनागे पद्मे च । अर्कः स्फटिकसूर्य्ययोः । कमलं जलाम्बुजयोः । कीलालं जलरक्तयोः । “सुहृद्रत्नादिभिर्भानो रत्नेनाग्ने रदांशुकैः । जलेभ्यो जन्मशोभाभिः सरोजकुमुदारिभिः ॥” भानोः परस्मात् सुहृद्रत्नादिभिः ॥ * ॥ सितरक्तौ यथा । रविमित्रं चन्द्रः रवितुल्यश्च । भानुरत्नं सूर्य्यकान्तः रविपद्मरागौ च । अग्नि- रत्नं सूर्य्यकान्तोऽग्निपद्मरागौ च । रदांशुकं दन्तवस्त्रे अधरश्च । जलजशोभा जलजा चासौ शोभा चेति पक्षे पद्मकान्तिः । एवं सरोजारि- शोभा सरोजस्पर्द्धिशोभा पक्षे सरोजारिश्चन्द्रः । कुमुदारिशोभा कुमुदस्पर्द्धिशोभा पक्षे कुमु- दारिरादित्यः । इति कविकल्पलतायाम् २ श्लेषस्तवके उद्दिष्टवर्णनं नाम १ कुसुमम् ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तः&oldid=503697" इत्यस्माद् प्रतिप्राप्तम्