रक्तकम्बलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकम्बलम्, क्ली, (कम्बलं जलमाश्रयत्वेनास्त्यस्येति । अर्श आद्यच् । रक्तं रक्तवर्णं कम्बलमुत्पल- मिति ।) रक्तोत्पलम् । यथा, -- “चन्दनागुरुकर्पूरकुङ्कुमैश्च सुगन्धिभिः । कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकम्बलैः ॥ फलैर्धूपैरपूपैश्च शोभनैर्गुडमिश्रितैः । अर्च्चयेद्बलिराजानं मन्त्रेण द्विजसत्तमः ॥” इति पाद्मोत्तरखण्डे १३ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तकम्बलम्&oldid=160296" इत्यस्माद् प्रतिप्राप्तम्