रक्तकरवीरकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकरवीरकः, पुं, (करवीर + स्वार्थे कन् । ततो रक्तः रक्तवर्णः करवीरकः ।) लोहितवर्णकर- वीरपुष्पवृक्षः । लाल् कनेल् इति हिन्दी भाषा । तत्पर्य्यायः । रक्तप्रसवः २ गणेश- कुसुमः ३ चण्डीकुसुमः ४ क्रूरः ५ भूतद्रावी ६ रवि- प्रियः ७ । अस्य गुणाः । कुटुत्वम् । तीक्ष्णत्वम् । विशोधनत्वम् । त्वद्गोषव्रणकण्डूतिकुष्ठविषहर- त्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः । “करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः । द्बितीयो रक्तपुष्पश्च चण्डलो लगुडस्तथा ॥ करवीरद्बयं तिक्तं कषायं कटुकञ्च तत् । व्रणलाघवकृन्नेत्रकोपकुष्ठव्रणापहम् । वीर्य्योष्णं कृमिकण्डूघ्नं भक्षितं विषवन्मतम् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तकरवीरकः&oldid=160298" इत्यस्माद् प्रतिप्राप्तम्