रक्तचन्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचन्दनम्, क्ली, (रक्तं रक्तवर्णं चन्दनम् ।) रक्त वर्णचन्दनकाष्ठम् । (यथा, रामायणे । २ । ३३ । ९ । “पद्मरागोचितां सीतां रक्तचन्दनसेविनीम् । वर्षमुष्णञ्च शीतञ्च नेष्यत्याशु विवर्णताम् ॥”) तत्पर्य्यायः । तिलपर्णो २ पत्राङ्गम् ३ रञ्ज- नम् ४ कुचन्दनम् ५ । इत्यमरः । १ । ६ । १३२ ॥ ताम्रसारम् ६ ताम्रवृक्षः ७ चन्द- नम् ८ । इति रत्नमाला ॥ लोहितम् ९ शोणितचन्दनम् १० रक्तसारम् ११ ताम्र- सारकम् १२ क्षुद्रचन्दनम् १३ अर्कचन्द- नम् १४ । इति राजनिर्घण्टः ॥ रक्ताङ्गम् १५ प्रवालफलम् १६ । इति भावप्रकाशः ॥ पत्त- ङ्गम् १७ पत्तगम् १८ रक्तबीजम् १९ । इति शब्दरत्नावली ॥ अस्य गुणाः । अतिशीतल- त्वम् । तिक्तत्वम् । ईक्षणगतास्रदोषभूतपित्त- कफकासज्वरभ्रान्तिजन्तुवमथुतृषानाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “रक्तं शीतं गुरु स्वादु च्छर्द्दितृष्णास्रपित्तहृत् । तिक्तनेत्रहितं वृष्यं ज्वरव्रणविषापहम् ॥” इति भावप्रकाशः ॥ अन्यच्च । “रक्तपित्तहरं बल्यं चक्षुष्यं रक्तचन्दनम् ॥” इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचन्दन नपुं।

रक्तचन्दनः

समानार्थक:तिलपर्णी,पत्राङ्ग,रञ्जन,रक्तचन्दन,कुचन्दन,पत्राङ्ग,रक्तचन्दन

2।6।132।1।4

तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम्. कुचन्दनं चाथ जातीकोशजातीफले समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

रक्तचन्दन नपुं।

रक्तचन्दनः

समानार्थक:तिलपर्णी,पत्राङ्ग,रञ्जन,रक्तचन्दन,कुचन्दन,पत्राङ्ग,रक्तचन्दन

2।9।111।1।4

गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम्. त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचन्दन¦ न॰ कर्म॰। स्वनामख्याते चन्दनभेदे अमरः।
“रक्तं (चन्दनम्) पीतं गुरु स्वादु छर्दितृष्णास्रपित्त-नुत्। पित्तनेत्रहितं वृष्यं ज्वरव्रणविषापहम्” भावप्र॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचन्दन¦ n. (-नं)
1. Red wood, either red Sandal or sappan wood. (Ptro- carpus Santalinus.)
2. Saffron. E. रक्त red and चन्दन Sandal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचन्दन/ रक्त--चन्दन n. red sandal Bhpr.

रक्तचन्दन/ रक्त--चन्दन n. Caesalpina Sappan ib.

रक्तचन्दन/ रक्त--चन्दन n. saffron L.

"https://sa.wiktionary.org/w/index.php?title=रक्तचन्दन&oldid=387605" इत्यस्माद् प्रतिप्राप्तम्