रक्तपित्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपित्तम्, क्ली, (रक्तदूषकं पित्तमिति । मध्यपदलोपी कर्म्मधारयः । “रक्तञ्च पित्तञ्च रक्तपित्त- मिति द्वन्द्ब इति सुश्रुतः । रक्तञ्च तत् पित्तञ्चेति रक्तपित्तं रागप्राप्तं पित्तमिति कर्म्मधारय इति चरकः ।”) रोगविशेषः । तस्य निदानं यथा, धन्वन्तरिरुवाच । “अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् । भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः ॥ कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरतिसेवितैः । कुपितं पित्तलैः पित्तं द्रवं रक्तञ्च मूर्च्छयेत् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपित्त¦ न॰ रोगभेदे। तल्लक्षणादिकं भावप्र॰ उक्तं यथा
“घर्मव्यायामशोकाध्वव्यवायैरतिसेवितैः। तीक्ष्णोष्ण-क्षारलवणैरम्लैः कदुभिरेव च। पित्तं विदग्धं स्वगुणै-र्विदहत्याशु शोणितम्”। तीक्ष्णं मरिचादि। उष्ण-मग्नितापादि। क्षारोयवक्षारादिः। विदग्धं स्वगुणैःस्वकारणैः गुणैस्तीक्ष्णादिभिः। गुणैरिति बहुत्वेनतीक्ष्ण म्ललवणकटूष्णघर्म्मादयो गृह्यन्ते विदहतिदूषयति। अथ रक्तपित्तस्य सामान्यं लक्षणमाह
“ततःप्रवर्त्तते रक्तमूर्द्धञ्चाधो द्विधाऽपि वा”। अत्र रक्त-मित्युपलक्षणम्। तेन संसृष्टं पित्तञ्च। अतएव रक्तञ्चपित्तञ्च रक्तपित्तमिति द्वन्द्व इति सुश्रुतः। रक्तञ्च तत्पित्तं चेति रक्तपित्तं रागप्राप्तं पित्तं रक्तमित्युच्यतेरक्तं पित्तं कर्मधारयश्च इति चरकः। उभयत्रापि न दोषःकारणत्रयात्। कारणत्रयमाह
“संयोगात् दूषणात्तत्तु सामान्यात् गन्धवर्णयोः। रक्तञ्च पित्तमाख्यातं रक्त-पित्तं मणीषिभिः”। मार्गानाह
“ऊर्ध्वं नासाक्षिकर्णास्यै-र्मेढ्रयोनिगुदैरधः। कुप्रितं रोमकूपैश्च समस्तैस्तत्-प्रवर्त्तते”। कुपितं पित्तम्। पूर्वरूपमाह
“सदनं शीत-कामित्वं कण्ठधूमायनं वमिः। लोहगन्धिश्च निश्वासोभवत्यस्मिन् भविष्यति”।
“विशिष्टरूपमाह
“सान्द्रं सपाण्डु{??}हं पिलिकं च कफान्वितम्”। वातिकम्यह
“श्या-[Page4785-b+ 38] वारुणं सफेतञ्च तनु रूक्षञ्च वातिकम्”। पैत्तिकमाह
“रक्तपित्तं कषायाभं कृष्णं गोमूत्रसन्निभम्। मेच-काङ्गारधूमाभमञ्जनाभञ्च पैत्तिकम्”। मेचकम् चिक्वणंकृष्णवर्णम्। अञ्जनं स्रोतोञ्जनं तदाभम्। संसर्गविशेषेणमार्गमेदमाह”
“संसृष्टं लिङ्गसंसर्गाद्त्रिलिङ्गं सान्नि-पातिकम्। ऊर्ध्वगं कफसंसृष्टमधोगं मारुतानुगम्। द्विमार्गं कफबाताम्यामुभाभ्यां तत् प्रवर्त्तते”। उपद्रवानाह
“दौर्बल्यं श्वासकासज्वरवमथुमदाः पाण्डुतादाहमूर्च्छाभुक्ते घोरोविदाहस्त्वधृतिरपि सदा हृद्यतुल्या चपीडा। तृष्णा कोष्ठस्य भेदः शिरसि च तपनं पूयनिष्ठी-वनञ्च द्वेषो भक्तेऽविपाको विकृतिरपि भवेद्रक्त{??}तोप-सर्गाः”। विकृतिः मांसप्रक्षालनाभतादिः। साध्या-दिकमाह
“एकदोषानुगं साध्यं द्विदोषात् याप्यमुच्यते।
“यत्त्रिदोषमसाध्यं स्यान्मन्दाग्नेरतिवेगवत्। ऊर्द्ध्वंसाध्यमधो याप्यमसाध्यं युगपद्गतम्। व्याधिभिः क्षीण-देहस्य वृद्धस्याऽनश्रतस्तु यत्”। अथ साध्यमाह
“एकमार्गं बलवतो नातिवेगं नवोत्थितम्। रक्तपित्तंसुखे काले साध्यं स्यान्निरुपद्रवम्”। सुखे काले हिम-शिशिरयोः। असाध्यमाह”
“मांसप्रक्षालनाभं क्कथित-मिव च यत्कर्द्दमाम्भीनिभं वा मेदःपूयास्रकल्पंयकृदिव यदि वा पक्वजम्बूफलाभम्। यत् कृष्णं यच्चनीलं भृशमपि कुखपं यत्र चोक्ता विकारास्तद्वर्ज्यंरक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति”। उक्ताविकारा दौर्बल्यादयः। सुरपतिधनुषा तुल्यं नानावर्णम्।
“येन चोपहतो रक्तं रक्तपित्तेन मानवः। पश्येद्भृशंवियच्चापि तदसाध्यमसंशयम्”। येन रक्तपित्तेनोपहतःमनुष्यः दृश्यं घटप्रटादिकं रक्तं पश्यति स नश्यतिवियच्चापि अदृश्यमपीत्यर्थः। अथारिष्टमाह।
“लोहितंछर्द्दयेद्यस्तु बहुशो लोहितेक्षणः। लोहितोद्गारदर्शीच म्रियते रक्तपैत्तिकः”। लोहितोद्गारदर्शी व्याधि-महिम्नोद्गारमपि लोहितं पश्यतीत्यर्थः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपित्त¦ m. (-त्तः) Plethora, spontaneous hæmorrhages from the mouth, nose, rectum and cuticle, accompanied with fever and headache, vomiting, purging, &c. E. रक्त red, and पित्त bile, the bile being of that colour; or रक्त blood and पित्त bile, it being supposed to be an affection of both fluids or humours.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपित्त/ रक्त--पित्त n. " bile-blood " , a partic. disturbance of the blood caused by bile , plethora , spontaneous hemorrhage from the mouth or nose Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=रक्तपित्त&oldid=387900" इत्यस्माद् प्रतिप्राप्तम्