रक्तपित्तम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपित्तम्, क्ली, (रक्तदूषकं पित्तमिति । मध्यपदलोपी कर्म्मधारयः । “रक्तञ्च पित्तञ्च रक्तपित्त- मिति द्वन्द्ब इति सुश्रुतः । रक्तञ्च तत् पित्तञ्चेति रक्तपित्तं रागप्राप्तं पित्तमिति कर्म्मधारय इति चरकः ।”) रोगविशेषः । तस्य निदानं यथा, धन्वन्तरिरुवाच । “अथातो रक्तपित्तस्य निदानं प्रवदाम्यहम् । भृशोष्णतिक्तकट्वम्ललवणादिविदाहिभिः ॥ कोद्रवोद्दालकैश्चान्यैस्तदुक्तैरतिसेवितैः । कुपितं पित्तलैः पित्तं द्रवं रक्तञ्च मूर्च्छयेत् ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तपित्तम्&oldid=160376" इत्यस्माद् प्रतिप्राप्तम्