रक्तमोक्षणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमोक्षणम्, क्ली, (रक्तस्य मोक्षणम् ।) शोणित- स्रावः । यथा, -- “वेदनोपशमार्थाय तथा पाकशमाय च । अचिरोत्पतिते शोथे शोणितस्रावणञ्चरेत् ॥ चरेत् कुर्य्यात् । एकतस्तु क्रियाः सर्व्वा रक्तमोक्षणमेकतः । रक्तं हि वेदनामूलं तच्चेन्नास्ति न चापि रुक् ॥ विवर्णे कठिने श्यावे व्रणे चात्यन्तवेदने । सविशेषे विशेषेण जलौकोभिः पदैरपि ॥ शोणितस्रावणञ्चरेदित्यनेनान्वयः ।” इति भाव- प्रकाशः ॥ (तथा च । “रक्तावसेचनं चतुर्भिः प्रकारैर्भवति । शिराविरेचनेनापि अलावूभिस्तथैव च ॥ श्लक्ष्णशृङ्गैर्जलौकाभी रक्तञ्च स्रावयेद्बुधः । पूर्ब्बाह्ने चापराह्णे च नात्युष्णे नातिशीतले ॥ यवागूपरिपीतस्य शोणितं मोक्षयेद्भिषक् । शिरोरोगेषु सर्व्वेषु नासामध्यपुटे तथा । अमृजं रेचयेद्यत्नात् सर्व्वदा भिषगुत्तमः ॥” एति हारीते शारीरस्थाने पञ्चमेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=रक्तमोक्षणम्&oldid=160410" इत्यस्माद् प्रतिप्राप्तम्