रक्तसारम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसारम्, क्ली, (रक्तवर्णः सारोऽस्य ।) रक्त- चन्दनम् । (यथास्य पर्य्यायः । “रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् । तिलपर्णं रक्तसारं तत्प्रबालफलं स्मृतम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) पत्तङ्गम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “पत्तङ्गं रक्तसारञ्च सुरङ्गं रञ्जनन्तथा । पट्टरञ्जकमाख्यातं पत्तूरञ्च कुचन्दनम् ॥”) इति भावप्रक्राशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=रक्तसारम्&oldid=160468" इत्यस्माद् प्रतिप्राप्तम्