रक्ताक्षः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्ताक्षः, पुं, (रक्ते लोहिते अक्षिणी अस्य । “अक्ष्णोऽदर्शनात् ।” ५ । ४ । ७६ । इति अच् ।) महिषः । पारावतः । चकोरः । क्रूरः । इति मेदिनी । षे, ४४ ॥ सारसः । इति राजनिर्घण्टः ॥ (अब्दविशेषः । यथा, बृहत्- संहितायाम् । ८ । ५१ । “रक्ताक्षमब्दं कथितं तृतीयं यस्मिन् भयं दंष्ट्रिकृतं गदाश्च ॥”) रक्तवर्णचक्षुर्युक्ते, त्रि । (यथा, रामायणे । २ । ८८ । १९ । “कथमिन्द्रीवरश्यामो रक्ताक्षः प्रियदर्शनः । सुखभागी न दुःखार्हो शयितो भुवि राघवः ॥” अयन्तु सदा लक्ष्मीयुक्तो भवेत् । यथा, ज्योतिः- सागरे । “न श्रीस्त्यजति रक्ताक्षं नार्थः कनकपिङ्गलम् । न दीर्घबाहुमैश्वर्य्यं न सौख्यं प्रहसन्मुखम् ॥”)
