रक्तातिसार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तातिसारः, पुं, (रक्तं अत्यन्तं सरत्यस्मात् । सृ + घञ् ।) रोगविशेषः । “तस्य संप्राप्तिमाह । ‘पित्तकृत्तु यदात्यर्थं द्रव्यमश्नाति पैत्तिके । तद्दोषाज्जायते शीध्रं रक्तातीसार उल्वणः ॥’ तस्य चिकित्सा । ‘वत्सकतरुत्वगार्द्रा दाडिमफलसम्भवा त्वक् । त्वग्युगलं पलमानं विपचेदष्टाङ्गसम्मिते तोये ॥ अष्टमभागं शेषं क्वाथं मधुना पिबेत् पुरुषः । रक्तातिसारमुल्वणमतिशयितं नाशयेन्नियतम् ॥ इति कुटजदाडिमक्वाथः ॥ * ॥ ‘गोदुग्धनवनीतन्तु मधुना सितया सह । लीढं रक्तातिसारे तु ग्राहकं परमं महत् ॥’ इति नवनीतावलेहः ॥ * ॥ ‘पीतं मधुसितायुक्तं चन्दनं तण्डुलाम्बुना । रक्तातिसारजिद्रक्तपित्ततृड्दाहमेहनुत् ॥’ चन्दनमत्र श्वेतम् । इति चन्दनकल्कः ॥” इति भावप्रकाशः ॥ (तथा च । “यस्तु रक्तशुद्धविरेचने शोषदाहमतिरिच्यते । रक्तातिसार इति विज्ञेयो वैद्यैर्महामतिभिः ॥ धन्वनागरमुस्ता च बालकं बालविल्वकम् । वलानागवला चेति क्वाथो रक्तातिसारिणाम् ॥ दाडिमञ्च कपित्थञ्च पथ्याजम्ब्वाम्रपल्लवान् । पिष्ट्वा देया मस्तुयुक्ता रक्तातिसारवारणाः ॥ गुडेन पक्वं दातव्यं विल्वं रक्तातिसारिणे । मनुजे मधुयुक्ता वा दध्ना रक्तातिसारहाः ॥ वत्सकातिविषनागराभया पेषितञ्च मधुमस्तुसंयुतम् । लेह एव मधुना च मानुषे रक्तवाहमति वारयत्यपि ॥ कुटजत्वक् च पाठा च विश्वं विल्वञ्च धातकी । मधुना सहितं चूर्णं देयं रक्तातिसारहम् ॥ इति रक्तातिसारः ।” इति हारीते चिकित्- सितस्थाने तृतीयेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्ताति(ती)सार¦ पु॰ रक्तमिश्रितोऽति(ती)सारः। वैद्यक-प्रसिद्धे रोगभेदे।
“पित्तकृत्तु यदात्यर्थं द्रव्यमश्नातिपैत्तिके। तद्दोषाज्जायते शीघ्रं रक्तातीसार उल्वणः” भावप्र॰। अति(ती)सारशब्दे

१०

६ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तातिसार¦ m. (-रः) Dysentery. E. रक्त, and अतिसार diarrhœa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तातिसार/ रक्ता m. flow of blood , dysentery , bloody flux S3a1rn3gS.

"https://sa.wiktionary.org/w/index.php?title=रक्तातिसार&oldid=388455" इत्यस्माद् प्रतिप्राप्तम्