रक्तार्व्वुदः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्तार्व्वुदः, पुं, क्ली, (रक्तानामर्व्वुदमत्र ।) रोग- विशेषः । यथा, शातातपीयकर्म्मविपाके । “जलोदरयकृत्प्लीहशूलरोगव्रणानि च । श्वासाजीर्णज्वरच्छर्द्दिभ्रममोहगलग्रहाः । रक्तार्व्वुदविसर्पाद्या उपपापोद्भवा गदाः ॥” इति मलमासतत्त्वम् ॥ * ॥ रक्तार्व्वुदमाह । ‘दोषप्रदुष्टा रुधिरं शिराश्च सङ्कोच्य संपीड्य ततस्त्वपाकम् । सस्रावमुन्नह्यति मांसपिण्डं मांसाङ्कुरैरावृतमाशु वृद्धिम् ॥ स्रवत्यजस्रं रुधिरं प्रदुष्ट- मसाध्यमेतद्रुधिरात्मकन्तु । रक्तक्षयोपद्रवपीडितत्वात् पाण्डुर्भवेदर्व्वुदपीडितश्च ॥’ दोषोऽत्र पित्तं रुधिरं शिराश्च सङ्कोच्य संपीड्य संहतीकृत्य मांसासृजोः सर्व्वेष्वर्व्वुदेषु दूष्यत्वं रक्तजे तु विशेषतो रक्तदुष्टिः एवं मांसार्व्वुदे विशेषतो मांसदुष्टिर्बोद्धव्या । ततो मांसपिण्ड- मुन्नह्यति उद्गतं करोति । अपाकं ईषत्पाकं यथा स्यादेवमिति क्रियाविशेषणम् । ईषत्- पाकश्चैकदेशपाकेन । रक्तक्षयोपद्रवपीडित- त्वात् रक्तक्षयोपद्रवाः सुश्रुतेनोक्ताः । तैः पीडितत्वात् अर्व्वुदपीडितः ॥ * ॥ अथार्व्वुदस्य चिकित्सा । ‘ग्रन्थ्यर्व्वुदानां न यतो विशेषः प्रदेशहेत्वाकृतिदोषदूष्यैः । अतश्चिकित्सेद्भिषगर्व्वुदानि विधानविद्ग्रन्थिचिकित्सितेन ॥ हरिद्रालोध्रपत्तङ्गगृहधूममनःशिलाः । मधुप्रगाढो लेपोऽयं मेदोऽर्व्वुदहरः परः ॥ मूलकस्य कृतः क्षारो हरिद्रायास्तथैव च । शङ्खचूर्णेन संयुक्तो लेपः सिद्धोऽर्व्वुदापहः ॥ वटदुग्धकुष्ठरोमकलिप्तं बद्धं वटस्य पत्रेण । अध्यस्थि सप्तरात्रान्महदप्युपशान्तिमर्व्वुदं गच्छेत् ॥ शिग्रुमूलकयोर्ब्बीजं रक्षोघ्नं सुरसा यवम् । तक्रेणाश्वरिपुं पिष्ट्वा लिम्पेदर्व्वुदशान्तये ॥’ रक्षोघ्नं सर्षपम् । सुरसा तुलसी । यवं इन्द्रयवम् । अश्वरिपुं करवीरम् ।” इति भावप्रकाशः ॥
