सामग्री पर जाएँ

रक्तार्शः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रक्तार्शः, [स्] क्ली, (रक्तजनितमर्शः ।) अर्शो- रोगविशेषः । तस्य लक्षणमाह । “रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः । वटप्ररोहसदृशा गुञ्जाविद्रुमसन्निभाः ॥ तेऽत्यर्थं दुष्टमुष्णञ्च गाढविड्भिः प्रपीडिताः । स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः ॥ भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः । हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः ॥ विट्श्यावं कठिनं रूक्षमधो वायुर्न वर्त्तते । तनु चारुणवर्णञ्च फेणिलञ्चासृगर्शसाम् ॥ कट्यूरुगुदशूलञ्च दौर्ब्बल्यं यदि वाधिकम् । तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणम् ॥ शिथिलं श्वेतपीतञ्च विट्स्निग्धं गुरु शीतलम् । यद्यर्शसां घनञ्चासृक् तत्तु सत्पाण्डु पिच्छिलम् ॥ गुदं सपिच्छं स्तिमितं गुरु स्निग्धञ्च कारणम् । श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्तार्शसां बुधैः ॥ गुदे कीला अर्शंसि । पित्ताकृतिसमन्विताः पित्तार्शोलक्षणयुक्ताः । आकारेण च वटप्ररो- हादिसदृशाः । दुःखैः रोगैः । त्वक्पारुष्याम्बु- शीतप्रार्थनादिभिः कलुषेन्द्रियः व्याकुलसर्व्वे- न्द्रियः । रक्तजस्यापि वातोल्वणस्य लक्षण- माह । तत्र रक्तार्शसि अनुबन्धः उल्वणत्वम् । रूक्षणं रूक्षयतीति रूक्षणं रूक्षं द्रव्यम् । पित्तोल्वणस्य लक्षणं रक्तोल्वणा गुदे कीला पित्ताकृतिसमन्विता इत्यादिनैवोक्तम् । रक्त- पित्तयोः समानलिङ्गत्वात् ॥ * ॥ कफोल्वणस्य लक्षणमाह । सपिच्छं पिच्छिलार्द्रस्तिमित- मार्द्रञ्चर्म्मावगुण्ठितमिव । तस्य चिकित्सा । रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक् । दुष्टाश्रेणिगृहीते स्युः शूलानाहासृगामयाः ॥ चन्दनकिराततिक्तकधन्वयवासाः सनागराः कथिताः । रक्तार्शसां प्रशमना दार्व्वीत्वगुशीरनिम्बा वा ॥ चन्दनमत्र रक्तचन्दनम् । इति चन्दनादिक्वाथः ॥ नवनीततिलाभ्यासात् केशरनवनीतशर्कराभ्यासात् । दधिसरमथिताभ्यासात् गुदजाः शाम्यन्ति रक्तवहाः ॥ दध्नस्तूपरि यो भागो घनः स्नेहयुतः सरः । मथितं सररहितम् । निर्ज्जलं वस्त्रपूतं दधि । सपद्मकेशरं क्षौद्रं नवनीतं नवं लिहन् । सिताकेशरसंयुक्तं रक्तार्शःसु सुखी भवेत् ॥ पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम् । ओदनमद्यादम्लैर्मधुरैरीषत्सुगन्धैश्च ॥ समङ्गोत्पलमोचाह्वतिरीटतिलचन्दनैः । सिद्धं छागीपयो दद्याद्गुदजे शोणितात्मके ॥ समङ्गा लज्जालुः । मोचाह्वो मोचरसः । तिरीटो लोध्रः । चन्दनमत्र रक्तचन्दनम् । सम- ङ्गादिदुग्धम् । भावितं रजनीचूर्णं स्नुहीक्षीरैः पुनः पुनः । बन्धनात् सुदृडं सूत्रं छिनत्त्यर्शो भगन्दरम् ॥ क्षारसूत्रम् ॥ नासानाभिसमुत्थेषु तथा मेढ्रादिजेष्वपि । क्रियामर्शःसु कुर्व्वीत तत्र तत्र यथोदिताम् ॥ चर्म्मकीलन्तु संछिद्य दहेत् क्षारेण चाग्निना । वेगावरोधन्त्रीपृष्ठयानान्युत्कटकासनम् । यथास्वं दोषलञ्चान्नमर्शसः परिवर्ज्जयेत् ॥” इति भावप्रकाशः ॥ (यथा चास्य लक्षणानि । “रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिका- फलसदृशानि पित्तलक्षणानि च यदावगाढ- पुरीषप्रपीडितानि भवन्ति तदात्यर्थं दुष्टमनल्प- मसृक् सहसा विमृजन्ति तस्यैवातिप्रवृत्तौ शोणि- तातियोगोपद्रवा भवन्ति ।” इति सुश्रुते निदान- स्थाने द्वितीयेऽध्याये ॥ अथास्य चिकित्सा । “रक्तार्शसामुपचारं वक्ष्यामि शृणु पुत्त्रक ! । प्रातस्तिलान् भक्षयेच्च नवनीतविमिश्रितान् ॥ सितानागरसंयुक्तं नवनीतं सशर्करम् । केशरं मातुलुङ्गस्य विडङ्गशर्करायुतम् ॥ भक्षेत् कुष्माण्डाषलेहं नवनीतेन शर्कराम् । एतेन रक्तगुदजान् शमयन्ति विचक्षणाः ॥ समङ्गा शाल्मलीपुष्पं चन्दनं ककुभत्वचम् । नीलोत्पलमजाक्षीरं पिष्ट्वा पानमसृग्गदान् ॥ कुटजमूलसकेशरमुत्पलं खदिरधातकिमूलशृतं पयः । पिबति म्रक्षणयोगमसृग्भवं गुदजवैकृतसङ्घविनाशनम् ॥” इति रक्तार्शश्चिकित् इति हारीते चिकित्सितस्थाने १२ अध्यायः ॥)

"https://sa.wiktionary.org/w/index.php?title=रक्तार्शः&oldid=160503" इत्यस्माद् प्रतिप्राप्तम्