सामग्री पर जाएँ

रक्तोत्पलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रक्तोत्पलम्, क्ली, (रक्तं रक्तवर्णमुत्पलम् ।) रक्त- पद्मम् । तत्पर्य्यायः । रक्तसरोरुहम् २ कोक- नदम् ३ । इत्यमरः । १ । १० । ४२ ॥ (यथा, बृहत्संहितायाम् । २९ । ९ । “विन्द्याच्च सिन्दुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन । रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥” तथास्य गुणाः । “धवलं कमलं शीतं मधुरं कफपित्तजित् । तस्मादल्पगुणं किञ्चिदन्यत् रक्तोत्पलादिकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=रक्तोत्पलम्&oldid=160515" इत्यस्माद् प्रतिप्राप्तम्