रक्षः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्षः, [स्] क्ली, (रक्षत्यस्मादिति । रक्ष + “सर्व्वधातुऽभ्योसुन् ।” उणा० ४ । १८८ । इति असुन् ।) राक्षसः । इत्यमरः । १ । १ । ६२ ॥ तद्विशेषो यथा, -- “दृष्ट्वा तु विकलान् व्यङ्गाननाथान् रोगिणस्तथा दया न जायते यस्य स रक्ष इति मे मतिः ॥” इत्याग्नेये यमशर्म्मिलोपाख्याननामाध्यायः ॥ रक्षोघ्नौषधं यथा, -- मनुरुवाच । “रक्षोघ्नानि विषघ्नानि यानि धार्य्याणि भूभुजा । अगदानि समाचक्ष्व तानि धर्म्मभृतांवर ॥ मत्स्य उवाच । पत्रिका रोहिणी चैव रक्तमाला महौषधी । तथामलकवन्दारं या च चित्रपटोलिका ॥ काकोली क्षीरकाकोली पीलुपर्णी तथैव च । केशिनी वृश्चिकाली च महानागा शतावरी ॥ तथा गरुडवेगा च स्थले कुमुदिनी तथा । स्थले चोत्पलिनी या च महाभूमिलता च या । उन्मादिनी सोमराजी सर्व्वरत्नानि पार्थिव । विशेषान्मरकतान्यत्र कीटपक्ष्यविशेषतः ॥ जीवजाताश्च मणयः सर्व्वे धार्य्या विशेषतः । रक्षोघ्नाञ्च यशस्याश्च कृत्या वेतालनाशनाः ॥” इति मात्स्ये १९२ अध्यायः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्षः [rakṣḥ], [रक्षन्त्यस्मात् इत्यर्थे असुन् Uṇ.4.196]
A guard, protector.
Preserving, guarding, watching. -Comp. -पालः, -पालकः a guard, protector.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्षः in comp. for रक्षस्.