रक्षितम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्षितम्, त्रि, (रक्ष + क्तः ।) कृतरक्षम् । तत्- पर्य्यायः । त्रातम् २ त्राणम् ३ अवितम् ४ गोपायितम् ५ गुप्तम् ६ । इत्यमरः । ३ । १ । १०६ ॥ (यथा, मनुः । ११ । २३ । “कल्पयित्वास्य वृत्तिञ्च रक्षेदेनं समन्ततः । राजा हि धर्म्मषड्भागं तस्मात् पाप्नोति रक्षितात् ॥” क्ली, भावे क्तः । रक्षा ॥ * ॥ स्त्रियां टाप् । अप्सरोविशेषः । यथा, महाभारते । १ । ६५ । ५० । “अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा । अरुणा रक्षिता चैव रम्भा तद्बन्मनोरमा ॥”)
