रक्षोघ्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षोघ्नम्, क्ली, (रक्षो राक्षसं हन्तीति । हन् + टक् ।) काञ्जिकम् । इति हेमचन्द्रः ॥ हिङ्गु । इति राजनिर्घण्टः ॥

रक्षोघ्नः, पुं, (रक्षो हन्तीति । हन् + टक् ।) भल्लातकवृक्षः । इति त्रिकाण्डशेषः ॥ श्वेत- सर्षपः । इति रत्नमाला ॥ रक्षोघ्नमन्त्रो यथा, -- “स्थाने हृषीकेश तव प्रकीर्त्त्या जगत् प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्व्वे नमस्यन्ति च सिद्धसंघाः ॥” इति भगवद्गीतायाम् । ११ । ३६ ॥ “स्थाने इत्यव्ययं युक्तमित्यर्थे । हे हृषीकेश सर्व्वेन्द्रियप्रवर्त्तक यतस्त्वमेवात्यन्ताद्भुतप्रभावो भक्तवत्सलश्च ततस्तव प्रकीर्त्त्या प्रकृष्टया कीर्त्त्या निरतिशयप्राशस्त्यस्य कीर्त्तनेन श्रव- णेन च न केवलमहमेव प्रहृष्यामि किन्तु सर्व्व- मेव जगच्चेतनमात्रं रक्षोविरोधि प्रहृष्यति प्रकृष्टं हर्षमाप्नोति इति यत् तत् स्थाने युक्त- मित्यर्थः । तथा सर्व्वं जगत् अनुरज्यते च त्वद्बि- षयमनुरागमुपैति इति च यत्तदपि युक्तमेव । यथा रक्षांसि भीतानि सन्ति दिशो द्रवन्ति सर्व्वासु दिक्षु पलायन्त इति यत्तदपि युक्तमेव । यथा सर्व्वेषां सिद्धानां कपिलादीनां संघा नमस्यन्ति चेति यत्तदपि युक्तमेव । सर्व्वत्र तव प्रकीर्त्त्या इत्यस्यान्वयः स्थाने इत्यस्य च । अयं श्लोको रक्षोघ्नमन्त्रः शास्त्रप्रसिद्धः ।” इति तट्टीकायां मधुसूदनसरस्वती ॥ (रक्षोविनाशके, त्रि । यथा सुश्रुते । १ । ५ । “वेदनारक्षोघ्नैर्धूपै- र्धूपयेद्रक्षोध्नैश्च मन्त्रै रक्षां कुर्व्वीत ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षोघ्न¦ न॰ रक्षो हन्ति हन--टक्।

१ काञ्जिके हेमच॰।

२ हिङ्गुनि राजनि॰। तदुगन्धस्य घ्राणसम्बन्धाद्धिरक्षसामपसरणम्।

३ भल्लातकवृक्षे पु॰ त्रिका॰।

४ श्वेतसर्षपे पु॰ रत्नमा॰। ऋग्वेदप्रसिद्धे
“कृष्णष्व-पाज” इत्यादिके ऋ॰

४ ।

४ ।

१० ।

५ सूक्तभेदे न॰।

६ वचायां स्त्री।

७ राक्षसशातकभात्रे त्रि॰ ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षोघ्न¦ m. (-घ्नः) Marking-nut plant. n. (-घ्न)
1. Sour gruel made from the fermentation of rice-water.
2. Asafœtida. E. रक्षस् a goblin, and घ्न destroying, repelling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्षोघ्न/ रक्षो--घ्न mfn. driving back or destroying -R राक्षसs Kaus3. R. Sus3r. etc.

रक्षोघ्न/ रक्षो--घ्न m. ( scil. मन्त्र)a spell or incantation destructive of -R राक्षसs Katha1s.

रक्षोघ्न/ रक्षो--घ्न m. (673146 -मन्त्रm. N. of wk. )

रक्षोघ्न/ रक्षो--घ्न m. (673146.1 -सूक्तn. N. of wk. )

रक्षोघ्न/ रक्षो--घ्न m. Semecarpus Anocardium L.

रक्षोघ्न/ रक्षो--घ्न m. white mustard L.

रक्षोघ्न/ रक्षो--घ्न n. sour rice-gruel L.

रक्षोघ्न/ रक्षो--घ्न n. Asa Foetida L. (for रक्षो-घ्नीSee. under -हन्).

"https://sa.wiktionary.org/w/index.php?title=रक्षोघ्न&oldid=388952" इत्यस्माद् प्रतिप्राप्तम्