रक्षोघ्नः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रक्षोघ्नः, पुं, (रक्षो हन्तीति । हन् + टक् ।) भल्लातकवृक्षः । इति त्रिकाण्डशेषः ॥ श्वेत- सर्षपः । इति रत्नमाला ॥ रक्षोघ्नमन्त्रो यथा, -- “स्थाने हृषीकेश तव प्रकीर्त्त्या जगत् प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्व्वे नमस्यन्ति च सिद्धसंघाः ॥” इति भगवद्गीतायाम् । ११ । ३६ ॥ “स्थाने इत्यव्ययं युक्तमित्यर्थे । हे हृषीकेश सर्व्वेन्द्रियप्रवर्त्तक यतस्त्वमेवात्यन्ताद्भुतप्रभावो भक्तवत्सलश्च ततस्तव प्रकीर्त्त्या प्रकृष्टया कीर्त्त्या निरतिशयप्राशस्त्यस्य कीर्त्तनेन श्रव- णेन च न केवलमहमेव प्रहृष्यामि किन्तु सर्व्व- मेव जगच्चेतनमात्रं रक्षोविरोधि प्रहृष्यति प्रकृष्टं हर्षमाप्नोति इति यत् तत् स्थाने युक्त- मित्यर्थः । तथा सर्व्वं जगत् अनुरज्यते च त्वद्बि- षयमनुरागमुपैति इति च यत्तदपि युक्तमेव । यथा रक्षांसि भीतानि सन्ति दिशो द्रवन्ति सर्व्वासु दिक्षु पलायन्त इति यत्तदपि युक्तमेव । यथा सर्व्वेषां सिद्धानां कपिलादीनां संघा नमस्यन्ति चेति यत्तदपि युक्तमेव । सर्व्वत्र तव प्रकीर्त्त्या इत्यस्यान्वयः स्थाने इत्यस्य च । अयं श्लोको रक्षोघ्नमन्त्रः शास्त्रप्रसिद्धः ।” इति तट्टीकायां मधुसूदनसरस्वती ॥ (रक्षोविनाशके, त्रि । यथा सुश्रुते । १ । ५ । “वेदनारक्षोघ्नैर्धूपै- र्धूपयेद्रक्षोध्नैश्च मन्त्रै रक्षां कुर्व्वीत ॥”)
