रघुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रघुः, पुं, (लङ्घति ज्ञानसीमां प्राप्नोतीति । लङ्घि + “लङ्घिबंह्योर्नलोपश्च ।” उणा० १ । ३० । इति कुः नलोपश्च । “बालमूललघ्वसुराल- मङ्गुलीनां वा लो रत्वमापद्यते इति वक्त्यवम् ।” ८ । २ । १८ । इति काशिकोक्त्या लस्य रत्वम् । इत्युज्ज्वलदत्तः ।) सूर्य्यवंशीयदिलीपराजपुत्त्रः । स तु अयोध्याधिपतिः । श्रीरामचन्द्रस्य प्रपिता- महः । यथा, रघुः । ३ । १८ । “स जातकर्म्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते । दिलीपसूनुर्म्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥” तन्नामव्युत्पत्तिर्यथा, -- “श्रुतस्य यायादयमन्तमर्भक- स्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थ-वि- च्चकार नाम्ना रघुमात्मसम्भवम् ॥” इति रघुवंशे महाकाव्ये । ३ । २१ ॥ (अस्य पिता दिलीपः माता सुदक्षिणा । अयं हि अश्वमेधयज्ञदीक्षितस्य पितुर्यज्ञीयाश्वरक्षणे नियुक्तस्तदश्वहारिणं देवराजं जितवान् । अथ बहुकालं राज्यसुखमनुभूय विश्वजिन्नामाध्वरे सर्व्वं वित्तं ब्राह्मणसात् कृतवानपि गुरुदक्षिणा- र्थिना वरतन्तुशिष्येण कौत्सेनाभ्यर्थितः कुबेरं विजित्य धनान्यादाय तस्मै प्रदत्तवान् । अथ स्वपुत्त्रमजं यौवराज्येऽभिषिच्य विगतविषयाभि- लाषो योगसमाधिना भगवत्-सायुज्यमाप्तवान् । तथा च रघुवंशे । ८ सर्गे । “अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तथा । विषयेषु विनाशधर्म्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥” “अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः । तमसः परमापदव्ययं पुरुषं योगसभाधिना रघुः ॥” * ॥ भीमादिवदेकदेशग्रहणे रघुवंशकाव्यम् । यथा, “रघुरपि काव्यं तदपि च पाठ्यम् तस्य च टीका सापि च पाठ्या ॥” एवं “रघोः काव्यं पदे पदे ॥” एतावुद्भटौ ॥ अपि च । “रञ्जयतीति । राजा प्रभुः । तेन ‘राजा प्रकृतिरञ्जनात् ।’ इति रघुः ।” इति उणादि- वृत्तौ उज्ज्वलदत्तः । १ । १५६ ॥ * ॥ रघु- वंशीयमात्रम् । तत्र बहुवचनान्तः । यथा, रघुवंशे । १ । ९ । “रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ॥” लङ्घति द्रुतं गच्छतीति । शीघ्रगामिनि, त्रि । यथा, ऋग्वेदे । ५ । ३० । १४ । “अत्यो न वाजी रघुरज्यमानः ॥” “रघुः शीघ्रगामी ।” इति तद्भाष्ये सायणः ॥”)
