रघुपतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रघुपतिः, पुं, (रघूणां पतिः ।) श्रीरामः । यथा, “यदुपतेः क्व गता मथुरा पुरी रघुपतेः क्व गतोत्तरकोशला । इति विचिन्त्य कुरुष्व मनः स्थिरं न सदिदं जगदित्यवधारय ॥” इति रूपगोस्वामी ॥ (केषाञ्चित् पण्डितानां नाम । यथा, रघुनाथ- शिरोमणिः अयन्तु नैयायिकः गाङ्गेशोपाध्याय- कृतव्याप्तिपञ्चकादेष्टीकाकारः । रघुनाथ चक्र- वर्त्ती अयममरकोषस्य टीकाकारः । रघुनाथ तर्कवागीशः । रघुनाथ सरस्वती । रघुनाथ दासगोस्वामी । अयं हि श्रीचैतन्यदेवस्य प्रियभक्तः आसीत् । स्तवावल्यादिभक्तिग्रन्थ- प्रणेता । अयं खलु अशेषवैराग्यसम्पन्नः यशो- हरनिवासिचरः कायस्थकुलभूषणं मथुरान्त- र्व्वर्त्तिगोवर्द्ध्वनगिरितटे राधाकुण्डे मर्त्त्यदेहं विहाय स्वर्धामागमत् । तत्समाधिरधुनापि तत्रैवास्ते सेव्यतेऽद्यापि बहुभिर्वैष्णवैः ॥)
