सामग्री पर जाएँ

रघुवंशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रघुवंशः, पुं, क्ली, (रघोर्वंशः सन्ततिर्वर्णनीयो यस्मिन् । यद्बा रघूणां वंशमधिकृत्य कृतमिति अण् लुक् च ।) कालिदासकृतरघुराजान्वय- वर्णनमहाकाव्यग्रन्थविशेषः । यथा, -- “रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥” इति रघुवंशे महाकाव्ये । १ । ९ ॥ (अयं हि ऊनविंशसर्गात्मको ग्रन्थः । अत्र दिलीपादारभ्य अग्निवर्णपर्य्यन्तं वस्तु वर्णि- तम् ॥ पुं, रघोर्वंशः । यथा, -- “जयति रघुवंशतिलकः कौशल्यानन्दिवर्द्धनो रामः ॥” इति रामायणम् ॥)

"https://sa.wiktionary.org/w/index.php?title=रघुवंशः&oldid=160566" इत्यस्माद् प्रतिप्राप्तम्