रङ्गभूमिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रङ्गभूमिः, स्त्री, (रङ्गस्य भूमिः ।) मल्लभूमिः । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । १३५ । ९ । “अवघुष्टे समाजे च तदर्थं वदतां वरः । रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि ॥” रङ्गभूमिविवरणं यथा, अश्ववैद्यके । ७ । ११-१२ । “सान्द्रां सुकठिनाञ्चैव पाषाणोदकसंयुताम् । तृणकाष्ठसमायुक्तां रङ्गभूमिन्तु वर्ज्जयेत् ॥ समाञ्च विपुलाञ्चैव किञ्चित् पांशुसमन्विताम् । एकान्ते विजने रम्ये रङ्गभूमिन्तु कारयेत् ॥”) नाट्यभूमिश्च ॥
