सामग्री पर जाएँ

रङ्गावतारकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रङ्गावतारकः, पुं, (रङ्गे सङ्गीतभवने अवतर- तीति । तॄ + ण्वुल् । यद्बा रङ्गं नृत्यादिकमव- तारयतीति । तॄ + णिच् + ण्वुल् ।) रङ्गाव- तारी । तत्पपर्य्यायः । शैलूषः २ भरतः ३ सर्व्व- वेशी ४ भरतपुत्त्रकः ५ धात्रीपुत्त्रः ६ रङ्ग- जीवः ७ जायाजीवः ८ नटः ९ कृशाश्वी १० शैलाली ११ । इति हेमचन्द्रः ॥ नृत्यगीतस्थाने गीतवाद्यादिना तदनुगुणतया प्रसङ्गी । इति प्रायश्चित्तविवेकः ॥ नटगायनव्यतिरिक्तरङ्गाव- तरणजीवी । इति कुल्लूकभट्टः ॥ तस्यान्नभक्षण- प्रायश्चित्तं यथा, -- “मत्तक्रुद्धातुराणाञ्च न भुञ्जीत कदाचन । केशकीटावपन्नञ्च पदा स्पृष्टञ्च कामतः ॥” इत्युपक्रम्य, -- “कर्म्मारस्य निषादस्य रङ्गावतारकस्य च । सुवर्णकर्त्तुर्व्वेणस्य शस्त्रविक्रयिणस्तथा ॥” इत्याद्युक्त्वा, -- “य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्त्तिताः । तेषान्त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥ भुक्त्वातोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् । मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रमेव च ॥” इति मानवे ४ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=रङ्गावतारकः&oldid=160612" इत्यस्माद् प्रतिप्राप्तम्