रजतम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजतम्, क्ली, (रजति प्रियं भवति रज्यत इति वा । रन्ज + “पृषिरञ्जिभ्यां कित् ।” उणा० । ३ । १११ । इति अतच् कित्कार्य्यञ्च ।) रूप्यम् । इत्यमरः । २ । ९ । ९६ ॥ हस्तिदन्तः । धवलः शोणितम् । हारः । ह्रदः । शैलः । (स तु शाकद्बीपस्थ एव । यथा, मात्स्ये १२१ । १४ । “रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत् । तस्यापरेण रजतो महानस्तो गिरिः स्मृतः ॥”) स्वर्णम् । इति हेमचन्द्रः । ४ । १०९ ॥ शुक्ल- वर्णविशिष्ठे, त्रि । इत्यमरटीकायां भरतः ॥ पितृकार्य्ये रजतपात्रादीनां प्राशस्त्यादि यथा, “सौरर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते । रजतस्य कथा वापि दर्शनं दानमेव वा ॥ राजतैर्भाजनैरेषामथवा रजतान्वितैः । वार्य्यपि श्रद्धया दत्तमक्षयायोपकल्प्यते ॥ यथार्घ्यपिण्डभोज्यादौ पितणां राजतं मतम् । शिवनेत्रोद्भवं तस्माद्दत्तं तत् पितृवल्लभम् । अमङ्गलं तद्यज्ञेषु देवकार्य्येषु वर्ज्जितम् ॥” इति मात्स्ये १७ अध्यायः ॥

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--silver, came out of शिव's eyes; hence dear to पितृस्; but inauspicious and to be avoided in देवकार्यस्. M. १७. २२-3.

"https://sa.wiktionary.org/w/index.php?title=रजतम्&oldid=435955" इत्यस्माद् प्रतिप्राप्तम्