रजताचलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रजताचलः, पुं, (रजतप्रधानोऽचल इव । शाक- पार्थिवादिवत्समासः ।) रौप्यपर्व्वतः । तस्य परिमाणं दानविधिश्च यथा, -- “राजतो नवमस्तद्बद्दशमः शर्क्कराचलः । वक्ष्ये विधानमेतेषां यथावदनुपूर्व्वशः ॥ अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् । यत्प्रसादान्नरो याति सोमलोकं द्बिजोत्तम ॥ दशभिः पलसाहस्रैरुत्तमो रजताचलः । पञ्चभिर्म्मध्यमः प्रोक्तस्तदर्द्धेनावरः स्मृतः ॥ अशक्तौ विंशतेरूर्द्धं कारयेत् शक्तितः सदा । विष्कम्भपर्व्वतांस्तद्बत् तुरीयांशेन कल्पयेत् ॥ पूर्ब्बवद्राजतान् कुर्य्यान्मन्दरादीन् विधानतः ॥” पूर्व्ववत् रत्नाचलवत् । “कलधौतमयांस्तत्र लोकेशान् रचयेद्बुधः ॥ ब्रह्मविष्ण्वर्कवत् कार्य्यो नितम्बोऽत्र हिरण्मयः । राजतं स्याद्यदन्येषां समन्तादिह काञ्चनम् ॥ शेषञ्च पूर्ब्बवत् कुर्य्यात् होमजागरणादिकम् । प्रदद्यात्तु प्रभाते तु गुरवे रौप्यपर्व्वतम् ॥ विष्कम्भशैलान्नृत्विग्भ्यः पूज्य वस्त्रविभूषणैः । इमं मन्त्रं पठन् दद्याद्दर्भपाणिर्व्विमत्सरः ॥ पितणां वल्लभं यस्मात् विष्णोर्व्वा शङ्करस्य च । रजतं पाहि तस्मान्नः शोकसंसारसागरात् ॥ इत्थं निवेद्य वो दद्यात् रजताचलमुत्तमम् । गवामयुतदानस्य फलं प्राप्नोति सानवः ॥ सोमलोके सगन्धर्व्वैः किन्नराप्सरसाङ्गणैः । पूज्यमानो वसेद्बिद्वान् यावदाहूतसंप्लवम् ॥” इति मात्स्ये ७ अध्यायः ॥ (कैलासपर्व्वतः । यथा, महालिङ्गार्च्चनतन्त्रे । “रजताचलमध्ये तु कुबेरेश्वर ईरितः ॥”)
