सामग्री पर जाएँ

रजनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रजनम्, क्ली, (रज्यत इति । रन्ज् + “रञ्जेः क्युन् ।” उणा० २ । ७९ । इति क्युन् । “रजकरजन- रजःसूपसंख्यानम् ।” ६ । ४ । २४ । इति वार्त्तिकोक्तेर्नलोपश्च ।) रागः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ (यथा, महाभारते । ८ । ५२ । ९ । “यथा वा वाससी शुक्ले महारजनरञ्जिते । विभृयाद् युवती श्यामा तद्वदासीद्वसुन्धरा ॥”) ऋषिविशेषे, पुं । यथा, तैत्तिरीयसंहितायाम् । २ । ३ । ८ । १ । “रजनो वै कौणेयः क्रतुजितं जानकिं चक्षुर्व्वन् यमयात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=रजनम्&oldid=160648" इत्यस्माद् प्रतिप्राप्तम्