सामग्री पर जाएँ

रजनीचरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रजनीचरः, पुं, (रजन्यां चरतीति । चर + “चरेष्टः ।” ३ । २ । १६ । इति टः ।) राक्षसः । इति शब्दरत्नावली ॥ (यथा, रामायणे । ७ । ५ । ४ । “स तया सह संयुक्तो वराज रजनीचरः ॥” तथा च । “ओजोऽशनानां रजनीचराणां आहारहेतोर्न शरीरमिष्टम् । गर्भं हरेयुर्यदि तेन मातु- र्लब्धावकाशं न हरेयुरोजः ॥” इति चरके शारीरस्थाने द्वितीयेऽध्याये ॥) चौरः ॥ यामिकभटः ॥ (रात्रिविहारके, त्रि । यथा, हरिवंशे । २०२ । १८ । “ब्राह्मणानाञ्च राजानं शाश्वतं रजनीचरम् ॥”

"https://sa.wiktionary.org/w/index.php?title=रजनीचरः&oldid=160656" इत्यस्माद् प्रतिप्राप्तम्