सामग्री पर जाएँ

रजस्वलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रजस्वलः, पुं, (रजोऽत्रास्तीति । रजस् + “रजः- कृष्यासुतिपरिषदो वलच् ।” ५ । २ । ११२ । इति वलच् ।) महिषः । इति मेदिनी । ले, १६३ ॥ (अस्य पर्य्यायो यथा, -- “महिषो घोटकारिः स्यात् कासरश्च रजस्वलः । पीनस्कः कृष्णकायोऽथ लुलापो यमवाहनः ॥” इति भावप्रकाशस्य पूर्व्वखण्डे द्बितीये भागे ॥ त्रि, रजोयुक्तः । यथा, भागवते । ७ । १३ । १२ । “तं शयानं धरोपस्थे कावेर्य्यां सह्यसानुनि । रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् ॥” रजोगुणयुक्तः । स्पृहयालुः । यथा, मनुः । ६ । ७७ । “जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=रजस्वलः&oldid=160667" इत्यस्माद् प्रतिप्राप्तम्