सामग्री पर जाएँ

रजिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रजिः, पुं, चन्द्रवंशीयराजविशेषः । यथा । “पुरू- रवसो ज्येष्ठपुत्त्रश्चायुर्नामा । स राहोर्दुहितर- मुपयेमे । तस्यां पञ्च पुत्त्रानुत्पादयामास । नहुषक्षत्त्रवृद्धरम्भरजिसंज्ञाः । रजेः पञ्च पुत्त्रशतान्यतुलवीर्य्यसाराण्यासन् ।” इति विष्णु- पुराणे ४ अंशे । ८ । ९ । अध्यायौ ॥ (राज्यम् । कन्याविशेषे, स्त्री । यथा, ऋग्वेदे । ६ । २६ । ६ । “त्वं रजिं पिठीनसे दशस्यन् षष्ठिं सहस्रा शच्या सचाहन् ।” “रजिं एतदाख्यां कन्यां वा राज्यं वा ।” इति तद्भाष्ये सायणः ॥ रज्जुः । यथा, ऋग्वेदे । १० । १०० । १२ । “रजिष्ठया रज्या पश्व आ गोस्तुतूर्षति पर्य्यग्रं दुवस्युः ॥” “रजिष्ठया ऋजुतमया रज्या रज्ज्वा ।” इति तद्भाष्ये सायणः ॥)

"https://sa.wiktionary.org/w/index.php?title=रजिः&oldid=160670" इत्यस्माद् प्रतिप्राप्तम्