सामग्री पर जाएँ

रज्जुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रज्जुः, स्त्री, (सृज्यते रच्यते इति । सृज् + “सृजे- रसुश्च ।” उणा० १ । १६ । इति उः । असुगागमश्च । धातुसकारलोपश्च । आगम- सकारस्य जश्त्वम् । दकारः । तस्यापि चुत्वम् । जकारः । इत्युज्ज्वलः । अप्राणिजातेश्चार- ज्ज्वादीनामिति कथनात् न ऊङ् ।) बन्धन- साधनवस्तु । दडी इति भाषा ॥ तत्- पर्य्यायः । शुंल्लम् २ वराटकः ३ वटी ४ गुणः ५ इत्यमरः । २ । १० । २७ ॥ शुल्ला ६ । इति भरतधृतरत्नकोषः ॥ शुल्वम् ७ शुल्वः ८ शुल्वा ९ शुल्वी १० सुष्मम् ११ वराटः १२ वटाकरः १३ वटीगुणः १४ । इति टीकान्तरम् ॥ (तस्या अपहरणे दोषो यथा, मनौ । ११ । १६९ । “कार्पासकीटजीर्णानां द्बिशफैकशफस्य च । पक्षिगन्धौषधीनाञ्च रज्ज्वाश्चैव त्र्यहं पयः ॥”) वेणी । इति मेदिनी । जे, १४ ॥ (प्रत्यङ्ग- विशेषः । यथा, सुश्रुते शारीरस्थाने ५ अध्याये । “रज्जवः सेवन्यः सङ्घाताः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रज्जुः [rajjuḥ], (Uṇ.1.15) f. A rope, cord, string.

N. of a sinew proceeding from the vertebral column.

A lock of braided hair. -Comp. -दालक a kind of wild fowl; so रज्जुवालः; Ms.5.12. -पेडा a rope-basket.

"https://sa.wiktionary.org/w/index.php?title=रज्जुः&oldid=390311" इत्यस्माद् प्रतिप्राप्तम्