सामग्री पर जाएँ

रज्याङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रज्याङ्गम्, क्ली, (राज्यस्य अङ्गम् ।) राज्यस्योपायः । तत्पर्य्यायः । प्रकृतिः २ । तत्तु अष्टविधं यथा । स्वामी १ अमात्यः २ सुहृत् ३ कोषः ४ राष्ट्रम् ५ दुर्गम् ६ बलम् ७ पौराणां श्रेण- यश्च ८ । इत्यमरः । २ । ८ । १८ ॥ “स्वाम्या- दयः सप्त पुरस्थलोकश्रेणयश्च राज्याङ्गपद- प्रकृतिपदवाच्याः । राज्यं सप्ताङ्गम् । कस्य- चिन्मते अष्टाङ्गञ्चेत्युभयमेव दर्शितम् । यदुक्तं कामन्दकीये । ‘स्वाम्यमात्यश्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृत् । परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते ॥’ पौरश्रेण्या सहाष्टाङ्गमपि राज्यं प्रकीर्त्तित- मिति । स्वाम्यादयः सप्त परस्परोपकारित्वात् राज्यस्य अङ्गानि उपायाः साधनानि राज्या- ङ्गानि प्रकृष्टं कुर्व्वन्ति राज्यम् । प्रकृतयः कृद्धोः कभाव इत्युक्तेः क्तिः प्रकृतिः स्त्रियाम् । स्वामी राजा । अमात्यो मन्त्री । सुहृन्मित्रम् । स्वर्णादि- भाण्डागारं कोषः । राष्ट्रं जनपदवती भूमिः । पर्व्वतादिदुर्गमं पुरं दुर्गम् । बलं सैन्यम् । पौर- श्रेणीग्रहणे सिद्धे पुनर्व्वचनं प्राधान्यख्याप- नार्थम् ।” इति भरतः ॥ * ॥ अपि च । “स्वाम्यमात्यो जनपदो दुर्गं दण्डस्तथैव च । कोषो मित्रञ्च धर्म्मज्ञ सप्ताङ्गं राज्यमुच्यते ॥ सप्ताङ्गस्यापि राज्यस्य मूलं स्वामी प्रकी- र्त्तितः । तन्मूलत्वात्तथाङ्गानां राजा रक्ष्यः प्रयत्नतः ॥ षडङ्गरक्षा कर्त्तव्या तथा तेन प्रयत्नतः । अङ्गेभ्यो यस्तथैकस्य द्रोहमाचरतेऽल्पधीः । वधस्तस्य तु कर्त्तव्यः शीघ्रमेव महीक्षिता ॥” इति मात्स्ये १९४ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=रज्याङ्ग&oldid=161467" इत्यस्माद् प्रतिप्राप्तम्