सामग्री पर जाएँ

रञ्जकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रञ्जकः, पुं, (रञ्जयतीति । रन्ज् + णिच् + ण्वुल् ।) कम्विल्लकः । इति राजनिर्घण्टः ॥ प्रीतिजनकः । वस्त्रादिरागकर्त्ता च ॥ (अस्य गृहे भोजनं निषिद्धं यथा, मनौ । ४ । २१६ । “श्ववतां शौण्डिकानाञ्च चेलनिर्णेजकस्य च । रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥” नाद्यादिति शेषः ॥ पित्तान्तर्गतोऽग्निविशेषः । यथा, -- “यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा सरसस्य रागकृदुक्तः ।” इति सुश्रुते सूत्रस्थाने २१ अध्यायः ॥)

"https://sa.wiktionary.org/w/index.php?title=रञ्जकः&oldid=160681" इत्यस्माद् प्रतिप्राप्तम्