सामग्री पर जाएँ

रटन्ती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रटन्ती, स्त्री, (रट्यते पुण्यजनकत्वेन कथ्यते इति । रट् + बहुलकात् झच् । ङीप् ।) गौणचान्द्र- माघीयकृष्णचतुर्द्दशी । तत्र अरुणोदयकाले स्नानं कर्त्तव्यम् । यथा । यमः । “माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी । तस्यामुदयवेलायां स्नाता नावेक्षते यमम् ॥” उदयवेलायामरुणोदयवेलायाम् । “अनर्काभ्युदिते काले माघे कृष्णचतुर्द्दशी । सतारव्योमकाले तु तत्र स्नानं महाफलम् । स्नात्वा सन्तर्प्य तु यमान् सर्व्वपापैः प्रमुच्यते ॥” अत्र तिथिकृत्यत्वात् गौणचान्द्रादरः । अत्रा- रुणोदयकाल एव स्नानं पूर्ब्बोक्तचतुर्द्दशयम- तर्पणञ्च । यत्तु उदयवेलायां सूर्य्योदयवेलायां अनर्काभ्युदित इति ईषदर्थे नञिति व्याख्यानं तत् समुद्रकरभाष्यधृतसतारव्योम इति इत्यु- त्तरार्द्धानवलोकनेनेति । इति तिथ्यादितत्त्वम् ॥ किञ्च । “अनर्काभ्युदिते काले स्नानं कुर्य्यात् सरिज्जले । शतजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ रटन्ती नाम विख्याता सर्व्वपापहरा शिवा ॥” इति मत्स्यसूक्ते ५५ पटलः ॥ क्वचित् पुस्तके सरिज्जले इत्यत्र वहिर्ज्जले इति पाठः ॥ * ॥ तत्र श्यामापूजाविधिर्यथा, -- “माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी । तस्यां संपूजयेत्तारां महाविभवविस्तरैः । चक्रवर्त्ती महाराजो भवत्येव न संशयः ॥” इति बृहन्नीलतन्त्रे ७ पटलः ॥ अपि च । “माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी । तद्रात्रौ कालिकापूजा सर्व्वविघ्नोपशान्तये ॥” इति कालिकापुराणम् ॥ * ॥ अपरञ्च । “माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्द्दशी । तस्यां प्रदोषसमये पूजयेन्मुण्डमालिनीम् ॥” इत्याचार्य्यचूडामणिकृतकृत्यतत्त्वार्णवधृतवच- नम् ॥ अन्यत् श्यामाशब्दे द्रष्टव्यम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रटन्ती¦ स्त्री रट--बा॰ झश् ङीप्।
“माघे मास्यसिते पक्षे रट-न्त्याख्या चतुर्द्दशी। तस्यां प्रदोषसमये पूजयेत् मुण्डःमालिनीम्” इत्युक्तायां माघकृष्णचतुर्दश्याम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रटन्ती¦ f. (-न्ती) The fourteenth of the dark-half of Ma4gha when bathing is enjoined. E. रट् to speak, झश् aff., the waters speak.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रटन्ती [raṭantī], N. of the fourteenth day in the dark half of Māgha; माघे मास्यसिते पक्षे रटन्त्याख्या चतुर्दशी । तस्यां प्रदोष- समये पूजयेन् मुण्डमालिनीम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रटन्ती f. N. of the 14th day in the dark half of the month माघW.

"https://sa.wiktionary.org/w/index.php?title=रटन्ती&oldid=390488" इत्यस्माद् प्रतिप्राप्तम्