रणम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रणम्, क्ली पुं, (रणन्ति शब्दायन्तेऽत्रेति । रण् + “ग्रहेति ।” ३ । ३ । ५८ । इत्यत्र । “वशिरण्यो- रुपसंख्यानम् ।” इति काशिकोक्त्या अप् ।) युद्धम् । इत्यमरः । २ । ८ । १०४ ॥ (यथा, मनौ । ७ । ९० । “न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥” रमणम् । यथा, ऋग्वेदे । ८ । १७ । १२ । “शाचिगो शाचि पूजनायं रणाय ते सुतः ॥” “रणाय रमणाय ।” इति तद्भाष्ये सायणः ॥ रमणीये, त्रि । यथा, तत्रैव । १ । ११६ । २१ । “एकस्यावन्त्यो रावतं रणाय वशमश्विनासनये सहस्रा ।” “रणाय रमणीयाय ।” इति तद्बाष्ये सायणः ॥)
