सामग्री पर जाएँ

रतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रतम्, क्ली, (रमणमिलि । रम् + भावे क्तः ।) मैथुनम् । इत्यमरः । २ । ७ । ५७ ॥ (यथा, आर्य्यासप्तशत्याम् । ५४९ । “विपरीतमपि रतं ते स्रोतो नद्या इवानुकूल- मिदम् । तटतरुमिव मम हृदयं समूलमपि वेगतो हरति ॥” तत्तु द्बिविधम् । यथा, कामशास्त्रम् । “बाह्यमाभ्यन्तरञ्चेति द्बिविधं रतमुच्यते । तत्राद्यं चुम्बनाश्लेषनखदन्त क्षतादिकम् ॥ द्बितीयं सुरतं साक्षान्नानाकारेण कल्पितम् ॥”) गुह्यम् । इति मेदिनी । ते, ४९ ॥ अनुरक्ते, त्रि ॥ (यथा, राजतरङ्गिण्याम् । ३ । ५०५ । “तत्तुल्यगुणनिर्व्विण्णा तद्बिपक्षस्तुतौ रता ॥” नियुक्तः । यथा, मनुः । २ । २३५ । “यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् । तेष्वेव नित्यं शुश्रूषां कुर्य्यात् प्रियहिते रतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=रतम्&oldid=160726" इत्यस्माद् प्रतिप्राप्तम्