रतहिण्डकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रतहिण्डकः, पुं, (रते रतार्थं वा हिण्डते इति । हिण्ड् + ण्वुल् ।) स्त्रीचौरः । इति त्रिकाण्ड- शेषः ॥ लम्पटः । लोच्चा इति भाषा । तत्- पर्य्यायः । षिड्गः २ व्यलीकः ३ पल्लवः ४ द्रावकः ५ भुजङ्गः ६ चुम्बकः ७ लङ्गः ८ भृङ्गः ९ नारीतरङ्गकः १० स्वस्तिकः ११ रतनारीचः १२ बन्धकः १३ रतताली १४ कटारः १५ कामी १६ खेटी १७ नागरः १८ दासीप्रियः १९ कुण्डकीटः २० । इति शब्द- माला ॥
