सामग्री पर जाएँ

रत्नद्वीपम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रत्नद्वीपम्, क्ली, (रत्ननिर्म्मितं द्वीपम् । शाकपार्थिववत् समासः ।) रत्ननिर्म्मितस्थानम् । यथा, -- “सिंहस्कन्धाधिसंरूढां नानालङ्कारभूषिताम् । चतुर्भुजां महादेवीं नागयज्ञोपवीतिनीम् ॥ शङ्खचक्रधनुर्ब्बाणलोचनत्रितयान्विताम् । रक्तवस्त्रपरीधानां वालार्कसदृशीतनूम् ॥ नारदाद्यैर्म्मुनिगणैः सेवितां भवसुन्दरीम् । त्रिवलीबलयोपेतनाभिनालमृणालिनीम् ॥ रत्नद्बीपे महाद्वीपे सिंहासनसमन्विते । प्रफुल्लकमलारूढां ध्यायेत्तां भवगेहिनीत् ॥” इति तन्त्रसारे जगद्धात्रीध्यानम् ॥

"https://sa.wiktionary.org/w/index.php?title=रत्नद्वीपम्&oldid=160797" इत्यस्माद् प्रतिप्राप्तम्