सामग्री पर जाएँ

रत्नधेनु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रत्नधेनुः, स्त्री, (रत्ननिर्म्मिता धेनुः ।) महा- दानविशेषः । यथा, -- मत्स्य उवाच । “अथातः संप्रवक्ष्यामि महादानमनुत्तमम् । रत्नधेनुरिति ख्यातं गोलोकफलदं नृणाम् ॥ पुण्यन्दिनमथासाद्य तुलापुरुषदानवत् । लोकेशावाहनं कृत्वा ततो धेनुं प्रकल्पयेत् ॥ भूमौ कृष्णाजिनं कृत्वा लवणद्रोणसंयुतम् । धेनुं रत्नमयीं कुर्य्यात् सङ्कल्प्य विधिपूर्ब्बकम् ॥ स्थापयेत् पद्मरागाणामेकाशीतिं मुखे बुधः । पुष्परागशतं तद्वद्घोणायां परिकल्पयेत् ॥ ललाटे हेमतिलकं मुक्ताफलशतं दृशोः । भ्रूयुगे विद्रुमशतं शुक्ती कर्णद्बये स्मृते ॥ काञ्चनानि तु शृङ्गाणि शिरो वज्रशतात्मकम् । ग्रीवायां नेत्रपटलं गोमेदकसमन्वितम् ॥ इन्द्रनीलशतं पृष्ठे वैदूर्य्यशतपार्श्वकौ । स्फाटिकैरुदरं कार्य्यं सौगन्धिकशतान् हृदि ॥ खुरा हेममयाः कार्य्याः पुच्छं मुक्तावलीमयम् । सूर्य्यकान्तेन्दुकान्तौ च घ्राणं कर्पूरचन्दनैः ॥ कुङ्कुमानि च रोमाणि रौप्यं नाभिञ्च कारयेत् । गारुत्मतशतं तद्वदस्थीनि परिकल्पयेत् ॥ तथान्यानि च रत्नानि स्थापयेत् सर्व्वसन्धिषु । कुर्य्याच्छर्करया जिह्वां गोमयञ्च गुडात्मकम् ॥ गोमूत्रमाज्यञ्च तथा दधि दुग्धं स्वरूपतः । पुच्छाग्रे चामरं दद्यात् समीपे ताम्रदोहनम् ॥ कुण्डलानि च हैमानि भूषणानि च शक्तितः । कारयेदेवमेवन्तु चतुर्थांशेन वत्सकम् ॥ तथान्यानि च सर्व्वाणि पादांश्चेक्षुमयांस्तथा । नानाफलानि सर्व्वाणि पञ्चवर्णवितानकम् ॥ एवं विरचनं कृत्वा तद्बद्धोमाधिवासनम् । ऋत्विग्भ्यो दक्षिणां दत्त्वा धेनुमामन्त्रयेत्ततः । गुडधेनुवदावाह्य इदञ्चोदाहरेत्ततः ॥ त्वं सर्व्वदेवगणधाम यतः पठन्ति रुद्रेन्दुविष्णुकमलासनवामदेवाः । तस्मात् समस्तभुवनत्रयहेतुयुक्ता मां पाहि देवि भवसागरपीड्यमानम् ॥ आमन्त्र्य धेनुमभितः परिवर्त्त्य भक्त्या दद्याद्द्विजाय गुरवे जलपूर्ब्बकं ताम् । यः पुण्यमाप्य दिनमत्र कृतोपवासः पापैर्विमुक्ततनुरेति पदं मुरारेः ॥ इति सकलविधिज्ञो रत्नधेनुप्रदानं वितरति च विमानं प्राप्य देदीप्यमानम् । कलिकलुषविमुक्तो बन्धुभिः पुत्त्रपौत्त्रैः स हि मदनसुरूपः स्थानमभ्येति शम्भोः ॥” इति मत्स्यपुराणे महादानानुकीर्त्तने रत्नधेनु- प्रदानिको नाम २६२ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रत्नधेनु¦ स्त्री रत्नकल्पिता धेनुः। महादानार्थं कल्पितायांरत्ननिर्मितायां धेन्वाम्। मत्स्यपु॰

२८

७ अ॰ दृश्यम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रत्नधेनु/ रत्न--धेनु f. a cow symbolically represented by -jjewels Cat.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--the gift of a cow with precious gems set in every part of its body takes one to the world of विष्णु and makes him attain the place of शम्भु; फलकम्:F1: M. २७४. १०; २८८. 1-१७.फलकम्:/F Gudadhenu, fit for gift on the विशोकद्वादशि day. फलकम्:F2: Ib. ८२. 2.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=रत्नधेनु&oldid=435981" इत्यस्माद् प्रतिप्राप्तम्