रत्नसूः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रत्नसूः, स्त्री, (रत्नानि सूते इति । सू प्रसवे + क्विप् ।) पृथिवी । इति हेमचन्द्रः । ४ । ३ ॥ (यथा, राजतरङ्गिण्याम् । १ । ४२ । “त्रिलोक्यां रत्नसूः श्लाघ्या तस्यां धनपतेर्हरित् । तत्र गौरीगुरुः शेलो यत्तस्मिन्नपि मण्डलम् ॥” रत्नप्रसवकारिणि, त्रि । यथा, रघुः । १ । ६५ । “न मामवति सद्बीपा रत्नसूरपि मेदिनी ॥”)
