सामग्री पर जाएँ

रत्नाकरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रत्नाकरः, पुं, (रत्नानामाकरः उत्पत्तिस्थानम् ।) समुद्रः । इत्यमरः । १ । १० । २ ॥ (यथा, महाभारते । ३ । १०१ । २३ । “दुर्गं समाश्रित्य महोर्म्मिमन्तं रत्नाकरं वरुणस्यालयं स्म ॥”) रत्नोत्पत्तिस्थानञ्च ॥ (स्वनामख्यातकविविशेषः । यथा, राजशेखरकृतश्लोकः । “मा स्म सन्तु हि चत्वारः प्रायो रत्नाकरा इमे । इतीव स कृतो धात्रा कविरत्नाकरोऽपरः ॥” स तु ध्वनिगाथापञ्जिका-वक्रोक्तिपञ्चाशिका- हरविजयादिग्रन्थप्रणेता । अमृतभानु सूनु- र्विद्याधिपत्यपरनामायं कविः काश्मीरदेशे- ऽवन्तिवर्म्मणो राज्यकाले समुत्पन्नः । तथा च राजतरङ्गिण्याम् । ५ । ३९ । “मुक्ताकणः शिवस्वामी कविरानन्दवर्द्धनः । प्रथां रत्नाकरश्चागात् साम्राज्येऽवन्ति- वर्म्मणः ॥” अवन्तिवर्म्मराज्यकालस्तु ७७७ शकाब्दादारभ्य ८०६ शकाब्दपर्य्यन्तमासीदतस्तत्कालीन एवायं कविरिति ज्ञायते । रत्नाकरप्रणीतं हरविज- याभिधं पञ्चाशत्सर्गात्मकं महाकाव्यं काश्मी- रेषु प्रसिद्धमस्ति ॥)

"https://sa.wiktionary.org/w/index.php?title=रत्नाकरः&oldid=160817" इत्यस्माद् प्रतिप्राप्तम्