रत्नाचलः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रत्नाचलः, पुं, (रत्ननिर्म्मितः अचलः । शाक- पार्थिववत् समासः ।) दानार्थमणिमयपर्व्वतः । यथा, -- “अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम् । मुक्ताफलसहस्रेण पर्व्वतः स्यादनुत्तमः ॥ मध्यमः पञ्चशतिकस्त्रिशतेनाधमः स्मृतः । चतुर्थांशेन विष्कम्भाः पर्व्वताः स्युः समन्ततः ॥ पूर्ब्बेण वज्रगोमेदैर्द्दक्षिणेनेन्द्रनीलकैः । पुष्परागयुतैः कार्य्यो विद्वद्भिर्गन्धमादनः ॥ वैदूर्य्यविद्रुमैः पश्चात् संमिश्रो विमलाचलः । पद्मरागसमो वर्णैरुत्तरेण तु विन्यसेत् ॥ धान्यपर्व्वतवत् सर्व्वमत्रापि परिकल्पयेत् । तद्वदावाहनं कृत्वा वृक्षान् देवांश्च काञ्चनान् ॥ पूजयेत् पुष्पपानीयैः प्रभाते चाथ पूर्ब्बवत् । पूर्ब्बवद्गुरुऋत्विग्भ्यः फलमन्त्रानुदीरयेत् । यथा देवगणाः सर्व्वे सर्व्वरत्नेष्ववस्थिताः । त्वञ्च रत्नमयो नित्यमतः पाहि महाचल ! । यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरिः । सदा रत्नप्रदानेन तस्मान्नः पाहि पर्व्वत ॥ अनेन विधिना यस्तु दद्याद्रत्नं महागिरिम् । स याति वैष्णवं लोकममरेश्वरपूजितः ॥ यावत् कल्पशतं साग्रं वसेच्चेह नराधिप । रूपारोग्यगुणोपेतः सप्तद्बीपाधिपो भवेत् ॥ ब्रह्महत्यादिकं किञ्चिद्यदत्रामुत्र वा कृतम् । तत् सर्व्वं नाशमायाति गिरिर्वज्रहतो यथा ॥” इति मात्स्ये ९० अध्यायः ॥
