रथः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रथः, पुं, (रम्यतेऽनेनात्र वा । रम् + “हनि कुषिनीरमिकाशिभ्यः क्थन् ।” उणा० २ । २ । इति क्थन् । अनुनासिकलोपश्च ।) कायः । (यथा, गीतायाम् । “आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥”) चरणः । वेतसवृक्षः । इति विश्वः ॥ (अस्य पर्य्यायो यथा, -- “वेतसो नम्रकः प्रोक्तो वाणीरो वञ्जुलस्तथा । अभ्रपुष्पश्च विदुलो रथः शीतश्च कीर्त्तितः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) तिनिशवृक्षः । इति राजनिर्घण्टः ॥ चक्र- विशिष्टयुद्धार्थयानम् । तत्पर्य्यायः । शताङ्गः २ स्यन्दनः ३ । इत्यमरः । २ । ८ । ५१ ॥ स्यन्दन- मात्रम् । इत्यजयः ॥ (यथा, मनुः । ८ । २९५ । “स चेत् तु पथि संरुद्धः पशुभिर्वा रथेन वा । प्रमापयेत् प्राणभृतस्तत्र दण्ड्योऽविचारितः ॥”) तद्द्वारा भ्रमणगुणाः । “हस्त्यश्वरथदोलाद्यैर्भ्रमणं वातकोपनम् । स्थिरीकरणमङ्गानां बल्यं वह्निविवर्द्धनम् ॥” इति राजवल्लभः ॥ * ॥ रथविशेषाणां नामानि यथा, -- “युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः । संक्रीडार्थः पुष्यरथो देवार्थस्तु मरुद्रथः ॥ योग्यो रथो वैनायिकोऽध्वरथः परिघातिकः । कर्णीरथः प्रवहणं डयनं रथगर्भकः ॥ अनस्तु शकटोऽथ स्याद्गन्त्री कम्बलिवाह्यकम् । अथ काम्बलवस्त्राद्यास्तैस्तैः परिवृते रथे ॥ सपाण्डुकम्बली यः स्यात् संवीतः पाण्डुकम्बलैः । सत्तु द्वैपो वैयाघ्रश्च यो वृतो द्बीपिचर्म्मणा ॥” इति हेमचन्द्रः ॥ गोलोकस्य रथो यथा, -- “प्रदत्तं विप्रपत्नीभिर्म्मिष्टमन्नं सुधोपमम् । बालकान् भोजयित्वा तु स्वयञ्च बुभुजे विभुः ॥ एतस्मिन्नन्तरे तत्र शातकुम्भरथं वरम् । ददृशुर्विप्रपत्न्यश्च पतन्तं गगनादहो ॥ रत्नदर्पणसंयुक्तं रत्नसारपरिच्छदम् । रत्नस्तम्भैर्न्निबद्धञ्च सद्रत्नकलसोज्ज्वलम् ॥ श्वेतचामरसंयुक्तं वह्निशुद्धांशुकान्वितम् । पारिजातप्रसूनानां मालाजालविराजितम् ॥ शतचक्रसमायुक्तं मनोयायि मनोहरम् । वेष्टितं पार्षदैर्द्दिव्यैर्व्वनमालाविभूषितैः ॥ पीतवस्त्रपरीधानै रत्नालङ्कारभूषितैः । नवयौवनसम्पन्नैः श्यामलैः सुमनोहरैः ॥ हिभुत्रैर्मुरलीहस्तैर्गोपवेशधरैर्व्वरैः । शिखिपुच्छगुञ्जमालाबद्धवङ्किमचूडकैः ॥ अवरुह्य रथात्तर्णं ते प्रणम्य हरेः पदम् । रथमारोहणं कर्त्तमूचुर्ब्राह्मणकाभिनीः ॥ सन्धिभेऽर्थहृतिरन्तरसन्धौ भीतिरिष्टमनसो ननु गर्भे ॥” अथ मुहूर्त्तगणपतौ रथकृत्यम् । “पुष्ये पुनर्व्वसुज्येष्ठानुराधा रेवती द्वयोः । श्रवणादित्रिभे हस्तत्रितये रोहिणीमृगे । सार्के सौम्यदिने सौम्यविलग्ने रथकर्म्म सत् ॥” अथ ज्योतिःसागरे रथचक्रम् । “रथाकारं लिखेच्चक्रं भानुभादौ विलोकयेत् । रथाग्र त्रीणि रक्षाणि सृष्टिमार्गे प्रदापयेत् ॥ शृङ्गे मृत्युर्ज्जयं चक्रे सन्धिदण्डे महद्भयम् । रथाग्रे च महोत्पातं मध्ये चैव सुखप्रदम् ॥” इत्यार्य्येषु ज्योतिर्व्विद्वल्लभरामेण कृताः शुभा दिशः ॥ * ॥ अस्यार्थः । अथानन्तरं धीराः स्यन्दनानां रथानां अखिलं सम्पूर्णं विधानं कार्य्यमाहुः कथयन्ति । केषु लोलसंज्ञानि स्वाति पुनर्व्वसुः श्रवणा धनिष्ठा शतभिषा एतानि । मैत्रसंज्ञानि मृगशिरा रेवती चित्रा अनुराधा एतानि । लघुसंज्ञानि हस्ता अश्विनी पुष्या अभिजित् एतानि । जिष्णुरिन्द्रस्तद्भं ज्येष्ठा को ब्रह्मा तद्भं रोहिणी एतेषु नक्षत्रेषु । पुनः केषु सेनसद्द्युषु इनः सूर्य्यः तेन सह वर्त्तमानेषु । सतां शुभग्रहाणां द्युषु वारेषु । पुनः कस्मिन् साधुराशिवति शुभग्रहराशियुक्ते अङ्गे लग्ने सति । पुनः कैः वशा स्त्री सप्तमं स्थानं अम्बु चतुर्थं तपः नवमं एतद्भवनस्थैः साधुभिः शुभग्रहैरिति । अथ रथचक्रे नक्षत्रस्थापनम् । उष्णेति । उष्णवृष्णिः सूर्य्यस्तस्य करैः किरणैः कीर्णं व्याप्तं पुरं कक्षामण्डलीयस्वभागप्रदेशं यस्य तच्च तदृक्षञ्चेति तस्मात् अर्थात् सूर्य्या क्रान्तनक्षत्रात् अनसः शकटस्य वलयश्चक्रं तस्याग्रात् अग्रभागमारभ्य आविमध्यं मध्य- भागपर्य्यन्तं सुधिया ऋक्षवलयं भचक्रं देयं न्यासीकर्त्तव्यं किम्भूतं ऋक्षवलयं नवभागं नवभिर्भागैः स्थितमिति यावत् । पुनः किंभूतं सव्यभागनिचितभ्रमं वामभागेन व्याप्तभ्रमण- मिति । अथास्य फलम् । अनसः शकटस्य अग्रभे अग्रगतवर्त्तमाने चन्द्रनक्षत्रे सङ्कलिः युद्धं भवति । कूवरोडुनि युगन्धरगते वर्त्त- माननक्षत्रे अन्तो मृतिः मरणं भवति ॥ रथाङ्गे चक्रयुग्मे जयो भवति । सन्धिभे सन्धि- गतनक्षत्रे अर्थहृतिः द्रव्यहरणं भवति । अन्तरसन्धौ मध्यसन्धानगतनक्षत्रे भीति- भयो भवति । गर्भे मध्यभागगतनक्षत्रे इष्टं शुभं भवति । ननु निश्चितमिति । अन्यत् सुगमम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रथः [rathḥ], [रम्यतेनेन अत्र वा, रम्-कथन्; cf. Uṇ.2.2]
A carriage, chariot, car, vehicle; especially, a war-chariot.
A hero (for रथिन्); अपवातेषु पार्येषु त्रयस्ते$भावञ् रथाः Mb.1.2.92.
A foot.
A limb, part, member.
The body; cf. आत्मानं रथिनं विद्धि शरीरं रथमेव तु Kaṭh. 1.3.3.
A reed.
Pleasure, delight.
Comp. अक्षः a carriage-axle.
a measure of length (= 14 aṅgulas).
अङ्गम् any part of a carriage.
particularly, the wheels of a carriage; रथो रथाङ्गध्वनिना विजज्ञे R.7.41; Ś.7.1.
a discus, especially of Viṣṇu; चक्रधर इति रथाङ्गमदः सततं विभर्षि भुवनेषु रूढये Śi.15.26.
a potter's wheel. (-ङ्गः) the ruddy goose. ˚आह्वयः, ˚आह्वानः, ˚नामकः, ˚नामन् m. the ruddy goose (चक्रवाक); रथाङ्गनामन् वियुतो रथाङ्गश्रोणिबिम्बया । अयं त्वां पृच्छति रथी मनोरथशतैर्वृतः ॥ V.4. 18; Ku.3.37; R.3.24; रथाङ्गाह्वानानां भवति विधुरम् Udb.; (the male bird is said by poets to be separated from the female at night, and to be united at sun-rise). ˚पाणिः N. of Viṣṇu; रथाङ्गपाणेः पटलेन रोचिषा Śi.1.21; दुरन्तवीर्यस्य रथाङ्गपाणेः Bhāg. -अभ्रः a reed cane. -अर्थकः a small carriage. -अश्वः a carriage-horse -आयुधकः a kind of bow. -आरोहः one who fights from a chariot.-ईशः a warrior fighting from a chariot. -ईषा, -शा the pole of a carriage; रथेषाश्च रथेषाभिः ... संगतैः सहिताः Mb.6.46.5. -उडुपः, -पम् the body of a chariot.-उद्वहः, -उपस्थः the seat of a chariot, the driving-box; रथोपस्थ उपाविशत् Bg.1.47. -कट्या, -कड्या an assemblage of chariots. -कल्पकः an officer who is in charge of a king's chariots.
करः, कारः a coachbuilder, carpenter, wheel-wright; रथकारः स्वकां भार्यां सजारां शिरसा- वहत् Pt.4.54.
N. of a caste called सौधन्वन (q. v.); तस्मादत्रैवर्णिको रथकारः ŚB. on MS.6.6.47; परिशेषाद- त्रैवर्णिको रथकारः स्यात् ŚB. on MS.6.1.44. ˚न्यायः The rule according to which the रूढ अर्थ is stronger than the यौगिक अर्थ; cf. योगाद्रूढिर्बलीयसी. This is discussed and established in connection with the word रथकार by Jaimini and शबर in MS.6.1.44-5. -सुटुम्बिकः, -कुटुम्बिन्m. a charioteer, coachman. -कूबरः, -रम् the pole or shaft of a carriage; कूबरा रथकूबरैः ... संगतैः सहिताः Mb.6. 46.5. -केतुः the flag of a chariot. -क्षोभः the jolting of a chariot; रथक्षोभपरिश्रमम् R.1.58. -गणकः an officer who counts chariots. -गर्भकः a litter, palanquin. -गुप्तिःf. a fence of wood or iron with which a chariot is provided as a protection from collision. -घोषः the rattling of a chariot.
चरणः, पादः a chariot-wheel; धृतरथचरणो$भ्ययाच्चलद्गुः Bhāg.1.9.37; Dk.2.7.
the सुदर्शन wheel; रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति Śivamahimna 18.
the ruddy goose. -चर्या chariot-exercise, the use of a chariot, travelling by carriage; अनभ्यस्त- रथचर्याः U.5; सारथे रथचर्यासु सज्जो भव सुशिक्षितः Bm.1.684.-जङ्घा the hinder part of a chariot. -ज्वरः a crow.-दुर्गम् the throng of chariots. -धुर् f. the shaft or pole of a chariot. -नाभिः f. the nave of the wheel of a chariot; रथनाभिरिवाभिख्यायेत Ait. Up.2.4.5. -नीडः the inner part or seat of a chariot. -पुंगवः a chief or distinguished warrior.
बन्धः the fastenings or harness of a chariot.
a league of warriors. -महोत्सवः,
-यात्रा the solemn procession of an idol placed in a car (usually drawn by men). -मुखम् the forepart of a carriage. -युद्धम् 'a chariot-fight', a fight between combatants mounted on chariots. -योगः a team (of horses etc.) on a chariot; Bri. Up. -योजकः a charioteer, harnesser of a chariot. -वंशः a number of chariots.-वर्त्मन् n., -वीथिः f. highway, main road. -वारकः son of a Śūdra and a Sairandhrī.
वाहः a carriagehorse.
charioteer. -विज्ञानम्, -विद्या the art of driving chariots. -शक्तिः f. the staff which supports the banner of a war-chariot; रथशक्तिं मुमोचासौ दीप्तामग्नि- शिखामिव Mb.1.6.13. -शाला a coach-house, carriageshed. -शास्त्रम्, -शिक्षा the art of driving a chariot, coachmanship. -सप्तमी the seventh day in the bright half of Māgha.
