सामग्री पर जाएँ

रथकारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रथकारः, पुं, (रथं करोतीति । कृ + अण् ।) रथनिर्म्माणकर्त्ता । छुतार इति भाषा । स तु करणीगर्भे माहिष्याज्जातः । (यथा, वाज- सनेयसंहितायाम् । ३० । ६ । “स्त्रीषखं प्रमदे कुमारीपुत्रं मेधायै रथकारं धैर्य्याय तक्षाणम् ।” “रथकारं माहिष्येण करिण्यां जातम् ।” इति तद्भाष्ये महीधरः ॥) तत्पर्य्यायः । तक्षा २ वर्द्धकिः ३ त्वष्टा ४ काष्ठतट् ५ । इत्यमरः ॥ सूत्रधारः ६ वद्धका ७ रथकरः ८ काष्ठतक्षकः ९ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=रथकारः&oldid=160836" इत्यस्माद् प्रतिप्राप्तम्