सामग्री पर जाएँ

रथाङ्गम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रथाङ्गम्, क्ली, (रथस्याङ्गम् ।) चक्रम् । इत्यमरः ॥ (यथा, रघुः । ७ । ४१ । “रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ॥” रथावयवमात्रम् । यथा, महाभारते । १४ । ८२ । १३ । “ध्वजे पताकादण्डेषु रथयन्त्रहयेषु च । अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥” सुदर्शनचक्रम् । यथा, माघे । १ । २१ । “रथाङ्गपाणेः पटलेन रोचिषा- मृषित्विषः संवलिता विरेजिरे ॥”)

"https://sa.wiktionary.org/w/index.php?title=रथाङ्गम्&oldid=160860" इत्यस्माद् प्रतिप्राप्तम्