रथ्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रथ्यः, पुं, (रथं वहतीति । रथ् + “तद्वहति- रथयुगप्रासङ्गम् ।” ४ । ४ । ७६ । इति यत् ।) रथस्य वोढा घोटकः । इत्यमरः । २ । ८ । ४६ ॥ रथांसः । इति हेमचन्द्रः ॥ (रथस्य नेता । यथा, ऋग्वेदे । ९ । २१ । ६ । “ऋभुर्न रथ्यं नवं दधाता केतमादिशे ।” “रथ्यं रथस्य नेतारम् ।” इति तद्भाष्ये सायणः ॥ रथसम्बन्धिनि, त्रि । यथा, ऋग्वेदे । २ । ३१ । ७ । “सप्तिर्न रथ्यो अहधीतिमश्याः ।” “रथ्यो रथसम्बन्धी सप्तिर्न सर्पणशीलोऽश्व इव ।” इति तद्भाष्ये सायणः ॥ रथस्येदमिति । “रथात् यत् ।” ४ । ३ । १२१ । इति यत् ।) क्ली चक्रम् ॥ (युगम् । इति काशिका ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रथ्यः [rathyḥ], [रथं वहति यत्]
A chariot-horse; धावन्त्यमी मृगजवाक्षमयेव रथ्याः Ś.1.8; Śi.4.14.
A part of a chariot. -Comp. -चयः a team of horses. -विरथ्यः N. of Śiva.
