रन्ज
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रन्ज, म औ ञ रागे । इति कविकल्पद्रुमः ॥ (भ्वा०-दिवा० च-उभ०- वर्णान्तरोत्पादने सक०-आसक्तौ अक०-अनिट् ।) य ञ, रज्यति रज्यते । म, रजयति मृगान् मृगरमणादन्यत्र रञ्जयति पुत्त्रं पिता । औ, रङ्क्ता । ञ, रजति रजते । रागो वर्णा- न्तरोत्पादनमासक्तिश्च । इति दुर्गादासः ॥
रन्ज, य म औ ञ रागे । इति कविकल्पद्रुमः ॥ (भ्वा०-दिवा० च-उभ०- वर्णान्तरोत्पादने सक०-आसक्तौ अक०-अनिट् ।) य ञ, रज्यति रज्यते । म, रजयति मृगान् मृगरमणादन्यत्र रञ्जयति पुत्त्रं पिता । औ, रङ्क्ता । ञ, रजति रजते । रागो वर्णा- न्तरोत्पादनमासक्तिश्च । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रन्ज¦ रागे (वर्णान्तराधाने) सक॰ आसक्तौ अक॰ भ्वा॰ उभ॰अनिट्। रजति ते अराङ्क्षीत् अरङ्क्त। घटा॰ रञ्जयतिमृगरमणे तु रजयति।
रन्ज¦ रागे आसक्तौ दिवा॰ उभ॰ सक॰ अनिट्। रज्यतिरज्यते अराङ्क्षीत् अरङ्क्त। घटा॰ रञ्जयति रजयति।
