रन्धम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रन्धम्, क्ली, (रन्धयति हिनस्त्यनेनेति । रध् + बाहु- लकात् रक् ।) दूषणम् । (यथा, रघुः । १२ । ११ । “रन्ध्रान्वेषणदक्षाणां द्बिषामामिषतां ययौ ॥”) छिद्रम् । इति मेदिनी ॥ (यथा, रघौ । १५ । ८२ । “एवसुक्ते तया साध्व्या रन्ध्रात् सद्योभवाद्भुवः । शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥” मनुष्यशरीरस्थरन्ध्राणि यथा, -- “नासानयनकर्णानां द्बे द्वे रन्ध्रे प्रकीर्त्तिते । मेहनापानवक्त्राणामेकैकं रन्ध्रमुच्यते । दशमं मस्तके प्रोक्तं रन्ध्राणीति नृणां विदुः ॥ स्त्रीणान्त्रीण्यधिकानि स्युः स्तनयोर्गर्भवर्त्मनः । सूक्ष्मच्छिद्राणि चान्यानि मतानि त्वचि जन्मि- नाम् ॥” इति शार्ङ्गधरे पूर्ब्बखण्डे पञ्चमेऽध्याये ॥ योनिः । यथा, महाभारते । १२ । २८२ । ५३ । “रन्ध्रागतमथाश्वानां शिखोद्भेदश्च वर्हिणाम् । नेत्ररोगः कोकिलस्य ज्वरः प्रोक्तो महात्मना ॥”)
