रन्धितम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रन्धितम्, क्ली, (रध् + क्त ।) कृतरन्धनद्रव्यम् । तस्य पात्रान्तरे स्थापनविधिर्यथा, -- “सङ्कीर्णे पात्रसम्भारे मार्गे वा ग्रामवर्ज्जिते । स्थापयेद्गुणवान् सूदः सिद्धान्नं पात्रकान्तरे ॥ भक्तं स्वपावके स्थाप्यं न स्थाप्यं पात्रकान्तरे ॥ घृतं काष्ठायसे स्थाप्यं मांसं मांसभवं रसम् । स्थापयेद्राजते हैमे पात्रे लौहेऽथ काष्ठजे । पत्रादिषड्विधं शाकं स्थाप्यं काष्ठाश्मलौहजे । पक्वान्नं पिष्टकं भक्ष्यं स्थाप्यं कांस्येऽथ दारुजे ॥ धारयेत् सुशृतं क्षीरं पार्थिवे वाथ काष्ठजे । पानीयं पायसं तक्रं मृण्मयेष्वेव धारयेत् ॥ काचजे स्फाटिके वाथ वैदूर्य्यादिविचित्रिते । धारयेत् सर्व्वदा पात्रे रागषाडवशट्टकान् ॥ उक्तपात्रान्तरे स्थाप्यं तद्द्रव्यं तद्द्रुजापहम् । सर्व्वदा सुखदं हृद्यमन्यथा दोषकारकम् ॥” इति सूपकारशास्त्रे पाकराजेश्वरः ॥
