सामग्री पर जाएँ

रमणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

रमणः, पुं, (रमते रमयतीति वा । रम् + णिच् वा + ल्युः ।) पतिः । (यथा, कुमारे । ४ । २१ । “वचनीयमिदं व्यवस्थितं रमण ! त्वामनुयामि यद्यपि ॥” रमयति स्त्रीपुरुषाणां अन्तःकरणमिति । रम् + णिच् + ल्युः ।) कामदेवः । इति मेदिनी । णे, ७२ ॥ गर्द्दभः । इति हेमचन्द्रः । ३ । १८१ ॥ वृषणः । इति शब्दचन्द्रिका ॥ महारिष्टः । इति राजनिर्घण्टः ॥ (धरवसुपुत्त्राणामन्य- तमः । यथा, मात्स्ये । ५ । २४ । “कल्याणिन्यां ततः प्राणो रमणः शिशिरोऽपि च मनोहरा धरात् पुत्त्रानवापाथ हरेः सुता ॥” रमणीये, त्रि । यथा, भागवते । ४ । ६ । १० । “रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=रमणः&oldid=160931" इत्यस्माद् प्रतिप्राप्तम्